Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 325
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः । श्री व्यव-| हारसूत्रस्य पीठिकानंतरः। ॥ ७॥ पाण्मासिकं तपः, यदि पुनरकोविदोप्युपेत्य पंचेन्द्रियघातं करोति, दर्पण वा मैथुनं प्रतिसेवते, तदा तपः छेदो मूलं वा दीयते. विकोविदस्य षण्णां मासानामुपरि बहुष्वपि प्रतिसेवितेषु मासेषु प्रथमवेलायामुद्घातिताः षण्मासा दीयंते, द्वितीयवेलायामनुद्घातितास्तृतीयवेलायां छेदो मूल वा इति, अथ कीदृशो विकोविदः कीदृशो वा अविकोविद इत्यत आहगीतोविकोविदोखलु कयपच्छित्तोसियागीतोवि ।। छमासियपट्टवणाए तस्स सेसाण पक्खेवो ॥२८०॥ गीतो गीतार्थः खलु कृतप्रायश्चित्तो विकोविदः, योप्युक्तो यथा आर्य यदीयं भूयः सेविष्यसे, ततः छेदं मूलं वा दास्यामः, सोपि कोविदः, तद्विपरीतोऽगीतार्थः यश्च प्रथमतया प्रायश्चित्तं प्रतिपद्यते, यश्चोक्तोपि तथा न सम्यक् परिणमयति, स स्याद् भवेदकोविदः, तत्र यदि कोविदः षट्मासेषु तपसा कर्तुमारब्धेष्वंतरा यदिवा मासादिकं प्रतिसेविते तत् तस्य पूर्वप्रस्थापितपण्मासस्य ये शेषा मासा दिवसा वा तिष्ठंति तेषां मध्ये प्रक्षिप्यंते, न पुनः षण्मासपरिपूर्णानंतरं तद्विषयं भिन्न प्रायश्चित्तं दातव्यमिति तथा चाह षण्मासप्रस्थापनायां षण्मासेषुतपसाकर्तुम्मारब्धेषुइत्यर्थः तस्यमासिकादेरपांतराले प्रतिसेवितस्य षण्मासस्ययेशेषामासा स्तिष्ठति, तेषांमध्ये अनुग्रह कृत्स्न निर नुग्रहकृत्स्नेन वा प्रक्षेपः, आह, एतत् तपः छेदमूलाह प्रायश्चित्तं कुत उत्पद्यते; मूरिराहमुलातिचारे चेयं, पच्छित्तं होइ उत्तरेहिं वा ॥ तम्हा खलु मूलगुणेऽनतिकमे उत्तरगुणे वा ॥२८॥ एतत्तपः छेदमूलाई प्रायश्चित्तं यस्माद् भवति, मूलातिचारमूलगुणातिचारे प्राणातिपातादि प्रतिसेवने इत्यर्थः, उत्तरैर्वा | उत्तरगुणैर्वा पिंडविशुद्ध्यादिभिरतिचयमाणैभवति प्रायश्चित्तं, तस्मात् मूलगुणात् प्राणातिपातादिसेवनया उत्तरगुणाद्वा उद्गमा ॥ ९७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330