Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभाग नंतरः। श्री व्यव- *मासाः प्रतिसेवितास्तथापि मंदानुभावतः प्रतिसेविता यदिवा पश्चात् हा दुष्टुकृतमित्यादिनिंदनः प्रतनूकृता स्तत एष एकेन हारसत्रस्य मासेन शुध्यतीति जानाना एकं मासं प्रयच्छंति, यदिवा पंचरात्रिं आदिकं एप द्वितीयो भंगः, एकन मासेन पंचरात्रादिना वा पीठिका बहूनां मासिकादिपरिहारस्थानानामुपशमनात् , तथा येन तीत्रेण रागाद्यध्यवसायेन एको मास एकं पंचरात्रादिकं वा प्रतिसेवितं, स किलैकेन मासेन पंचरात्रादिना वा न शुध्यतीति तस्मै अनेकान मासान् प्रयच्छति उपर्युपरि रागद्वेषादिवृद्धिं पश्यतः, छेदमपि मूलमपि यावत्पारांचितमपि प्रयच्छंति, एष तृतीयो भंगः, अनेकर्मासं छेदादिभिर्वा पारांचितपर्यंतेरेकस्य मासस्य ॥8 ॥ पंचरात्रादिकस्य शोधनात् , तथा बहुषु मासेषु प्रतिसेवितेषु नूनमेष बहुभिर्मासैः शोधिमासादयिष्यतीत्यवबुध्यमानाः स्थापना रोपणाव्यतिरेकेण षण्मासान् प्रयच्छंति, परतस्तपःप्रायश्चित्तदानस्यासंभवात् एष चतुर्थो भगोऽनेकैमासेरनेकेषां मासानां शोधनात् , उपनययोजनमाह ।। विभंगीव जिग्णा खलु रोगी साहय रोग अवराहा ॥ सोही य श्रोसहाई तीए जिणाउ विसोहंति ॥ २६१॥ इह विचारप्रक्रमे विभंगिनो विभंगीतुल्याः खलु जिनाः प्रतिपत्तव्याः, रोगिणो रोगितुल्याः साधवः रोगा रोगतुल्या अपराधा मूलगुणोत्तरगुणापराधा औषधानि औषधतुल्या शोधिः प्रायश्चित्तलक्षणा यतस्तया शोध्या कृत्वा जिना अपि शोधयंति, नैवमेव तत औषधस्थानीया शोधिः एवं जिनं प्रतीत्य दोषा एकत्वमापन्नाः संप्रति यथा चतुर्दशपूर्विणमधिकृत्य दोषाणामेकत्वं भवति, तथा प्रतिपादयतिः ॥९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330