Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र शोन्किको विंशतितमो भागः प्रत्येकमेकैकं विंशतितमं भागं याचितवान् , वणिक् एका भांडीमेव दत्तवान् , मरुस्तु प्रत्येक प्रत्येक भंडीभ्य एकैकं विंशतितम भाग, अत्र वणिक्सदृशो गीतार्थो, मरुक्सदृशःपुनरिह अगीतोष्णीतार्थः, अथवा कार्याकायेषु यतनायतनयोनिधिलाभे यौ वणि गमरुको दृष्टांतो कर्त्तव्यौ, तथा चाह, अथवा, वणिमरुगय निहिलंभ निवेइए वणिय दंडो। मरुए पूय विसज्जण इय कजमकज जयमजओ ॥२७५।। ___अथवेति प्रकारांतरे एतच्चप्रकारांतरमिदं पूर्व गीतार्थागीतार्थयोवणिग्मरुकदृष्टांतावुक्ताविदानीं तु कार्याकार्येषु यतनायामयतनायां च निधिलाभोपलक्षितौ वणिग्मरुकदृष्टांतावुच्यते, इति, वणिजा निधिलामे अनिवेदिते वणिजो राज्ञा दंडः कृतः, मरुकेणनिधिलाभे निवेदिते तस्मिन् मरुके राज्ञा पूजा कृता, विसर्जनं च प्रदानं च निधिः मरुकाय कृतं इत्येवममुना दृष्टातेन कार्यमकार्य वाऽधिकृत्य यतमानोऽयतमानश्चोपनेतव्यः, यः कार्ये यतनाकारी, स मरुक इव पूज्यः, सर्वमपि च तस्य प्रायश्चित्तं मुच्यते, कार्ये अयतनाकारी अकार्ये यतनाकारी अकार्ये यतनाकारी च वणिगिव दंड्यते नवरं कार्येऽयतनाकारिणः स्तोको दंडः, अथवा यदधस्तादवाचि आचार्यस्य सर्वमुच्यते, किमिति वा शेषाः साधवः सर्व प्रायश्चित्तं बाह्यं अत्र निधिदृष्टांतस्तथा चाहमरुयसमाणो उ, गुरू मुच्चइ पुव्वपि सव्वं से । साहू वणिउव जहा, वाहिज्जइ सव्वपच्छित्तं ॥२७६॥
कथानकं प्रागुक्तमेव उपनयनस्त्वन्यथा, यथा मरुको निधिलाभनिवेदनेन राज्ञो अनुग्रहं कृतवान् तथा आचार्योपि
For Private and Personal Use Only

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330