Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्र स्य बीठिका - नंतरः । ॥ ८६ ॥ ******************→→ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनं प्रतीत्य चोदसत्ति चतुर्दशपूर्वधरमुपलक्षणमेतत् यावद् भिन्नदशपूर्वधरं प्रतीत्य तथा जातिएत्ति एकजातीयं प्रतीत्य तथा आलोचनां प्रतीत्य दुर्बलं प्रतीत्य आचार्य प्रतीत्य दोषाणामन्यथात्वमपि भवति, तत एतेन जिनाद्याश्रयलक्षणेन कारणेन दोषा एकत्वमापन्नाः, जिनादीन् प्रतीत्य दोषाणामेकत्वमभूदिति भावः तद्यथाद्ययोर्द्वयोर्यथाक्रमं घृतकुटनालिका दृष्टांतावपरयोस्तुद्वयोर्यथाक्रममेकानेकं द्रव्यमेकानेकनिषद्या च विषय इति दर्शयति, कुडगो उ जिणस्सा चोदसपुव्विस्स नालिया होइ। दव्वे एगमणेगा निसज्ज एगा गाय ॥ २५७॥ जिनस्य जिनविषये घृतकुटको दृष्टांतः, चतुर्द्दशपूर्विणो नालिका भवति दृष्टांतः, एकजातीयस्य एकानेकद्रव्यविषयः श्रालोचनायामेकानेकनिषद्याविषयः, तत्र यथा जिनं प्रतीत्य दोषा एकत्वमापन्नास्तथा विभंगिप्रयुक्तघृतकुटदृष्टांतेन भण्यते ।। उप्पत्ति रोगाणं तस्समो ओसहे य विभंगी । नाउं तिविहामयीणं देंति तहा उसहगहणं तु ॥ २५८ ॥ मिथ्यादृष्टिरुत्पन्नाऽवधिर्विभंगी स हि चिकित्सां करोति, न साधुरिति तदुपादानं विभंगिनो विभंगज्ञानिनो रोगाणामुत्पत्तिं उत्पद्यते रोगा अस्यामुत्पत्तिर्निदानं तां ज्ञात्वा तथा तदित्यनेन रोगाः संबध्यंते, शम्यंते उपशमं नीयंते रोगा यैस्तानि शमनानि औषधानि तेषां रोगाणां शमनानि तच्छमनानि तानि औषधानि यथावत् ज्ञात्वा त्रिविधा वातादिजन्यरोगयोगतस्त्रिप्रकाराः, श्रमः यो रोगः स येषां विद्यते, ते आमयिनः त्रिविधाश्व ते आमयिनश्च तेषां त्रिविधामयिनां तथा औषधगणं ददति, प्रयच्छति, यथानियमतो रोगोपशमो भवति, औषधप्रदाने च चत्वारो भंगास्तद्यथा For Private and Personal Use Only ***03*************-30-40 द्वितीयो विभागः । ॥ ८६ ॥

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330