Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य ठिकाऽनंतरः।
द्वितीयो विभागः।
-*- -*-:२६
||८८॥
| न कुरुते, कृतेपि वा पदभेदे न गृहणाति, गृहीतेपि यदि न भुक्तं किंतु परिष्ठापयति तदा स मिथ्यादुष्कृतमात्र प्रदाननापि शुध्यति. इति न सूत्राभिहितप्रायश्चित्तविषयः, मुंजानस्त्वनाचारे वर्तते. इति तस्य सूत्रोक्तं प्रायश्चित्तविषयता, जिनकल्पे जिनकल्पिकानां पुनः चतुर्वप्यतिक्रमादिषु पदेषु प्रायश्चित्तं भवति. किंत्विदं प्रायस्ते न कुर्वति, तदेवं सर्वमपि सूत्राभिहितं प्रायश्चित्तं, यतोऽनाचारमधिकृत्य प्रवृत्तमनाचारश्चातिक्रमाद्यविनाभावी, ततोऽर्थतः मूचितत्वात् , प्रतिसूत्रमतिक्रमादयो योजनीयाः इति स्थितं, ननु यद्येतत् सर्व निशीथसिद्धांते, ततो निशीथमपि कुतः सिद्धमित्यत आह ॥ | निसीहं नवमा पुव्वा, पञ्चक्खाणस्स तइय वत्थूओ। प्रायारनामधेजा, वीस इमा पाहुडछेया ॥ २५४ ॥
प्रत्याख्यानस्याभिधायकं नवमं पूर्व प्रत्याख्याननामकं तस्मात् । तत्रापि तृतीयादाचारनामधेयाद्वस्तुनस्तत्रापि विंशतितस्मात् प्राभृतछेदानिशीथमध्ययनं सिद्धं, इयमत्र भावना उत्पादपूर्वादीनि चतुर्दश पूर्वाणि, तत्र नवमं पूर्व प्रत्याख्याननामकं तस्मिन् विंशतिवस्तूनि, वस्तूनि नाम अर्थाधिकारविशेषास्तेषु विंशतौ वस्तुषु तृतीयमाचारनामधेयं वस्तु तत्र विंशतिः प्राभृतछेदाः, परिमाणपरिछिन्नाः, प्राभृतशब्दवाच्याः छेदा अर्थछेदास्तेषु यो विंशतितमः प्राभृतछेदः, तस्मानिशीथं सिद्धमिति, अत्राह शिष्यः, सर्वसाधूक्तं किंतु,
पत्तेयं पत्तेयं पए पए भासिऊण अवराहे । तो केण कारणेणं दोसा एगत्तमावन्ना।।२५५॥ एकोनविंशताबुद्देशकेषु पदे पदे सूत्रे सूत्रे वा यदिवा उद्देशके प्रत्येकं प्रत्येकं एकस्य दोषस्य प्रति प्रत्येकं अत्राभिमुख्य
८॥
For Private and Personal Use Only

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330