Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहणतो व्रतस्यातिक्रमणमतीचारः, आचारस्य साध्वाचारस्याभावः परिभोगतो ध्वंसोऽनाचारः, एते चातिक्रमादय आधाकर्माधिकृत्यैवं व्याख्याताः, आधाकर्मणा निमंत्रितः सन् यः प्रतिशृणोति, सोऽतिक्रमे वत्तेते, तद्ग्रहणनिमित्तं पदभेद कुर्वन व्यतिक्रमे गृहणातो अतीचारे, भुंजानो अनाचारे, एवमन्यदपि परिहारस्थानमधिकृत्यातिक्रमादयो योजनीयाः, एतेषु च प्रायश्चित्तमिदम् , अतिक्रमे मासगुरु व्यतिक्रमे पि मासगुरु काललघु अतिचारे मामगुरु द्वाभ्यां विशेषितं, तद्यथा तपोगुरु कालगुरु च अनाचारे चतुर्गुरु, यस्मात् गुरुको अतीचारश्च शब्दोऽनुक्तसमुच्चयार्थः, स चैतत् समुचिनोति, अतिक्रमात व्यतिक्रमो गुरुकम्तम्मादपि गुरुकोऽतीचार इति, ततोप्यतीचारात गुरुतरकोऽनाचारः, तत इत्थं प्रायश्चित्तविशेषः, तत्थ भवे न उ सुत्ते अतिकमादीउ वण्णिया केई ॥ चोयगसुत्ते सुत्ते अतिकमादीउ जोएजा ॥२५॥ ___ तत्र एवमुक्त भवेन् मतिश्वोदकस्य यथा नतु नैव सूत्रे निशीथाध्ययनलक्षणे केचिदतिक्रमादय उपवर्णिताः संति, ततः कथं चत्वारो अतिक्रमादयस्तत्रैवाध्ययने सिद्धा इति, मूरिराह ॥ चोदकसर्वोप्येष प्रायश्चित्तगणो अतिक्रमादिषु भवति. ततः साक्षादनुक्ता अपि सूत्रे तानतिक्रमादीन योजयेत् : अर्थतः मूचितत्वात् कथमर्थतः मूचिता इत्याह ।।
सव्वेवि य पच्छित्ता, जे सुत्ते ते पडुच्चऽणायारं ॥ थेराण भवे कप्पे जिणकण्पे चउसु विपएसु ॥२५३॥ ___ यानि कानिचित सूत्रेऽभिहितानि प्रायश्चित्तानि सर्वाण्यपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य भवंति, यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु प्रायश्चित्तं भवति, तथाहि प्रतिश्रुतेपि यदिस्वतः परतो वा प्रतिबोधतः पदभेदं
For Private and Personal Use Only

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330