Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1604 // 34 शतके उद्देशकः१ सूत्रम् 851 अध: पृथ्व्यादीनामूर्ध्वादावुत्पादः बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पश्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्त उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात्, पूर्वचरमान्तात्पुनर्दक्षिणचरमान्त उत्पद्यमानस्य व्यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति // 22 / / एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह कहिं ण मित्यादि, सट्ठाणेणं ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः जहा ठाणपदे त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदम्, तच्चैवं- 'तंजहा- रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, एगविह त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः अविसेसमणाणत्त त्ति अविशेषा विशेषरहिताः, यथा पर्याप्तकास्तथैवेतरेऽपि अणाणत्त त्ति अनानात्वा:नानात्ववर्जिताः, येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः सव्वलोयपरियावन्न त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्तन्त इति भावना, तत्रोपपात- उपपाताभिमुख्यं समुद्धात इह मारणान्तिकादि स्वस्थानं तु यत्र त आसते // 27 / / समुद्धातसूत्रे वेउब्वियसमुग्घाए त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति // 32 // एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह एगिदिया ण मित्यादि, तुल्लट्ठिइय त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः तुल्लविसेसाहियं कम्मं पकरेंति त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण- असत्येयभागादिना, अधिकं पूर्वकालबद्धकर्मापेक्षयाऽधिकतरंतुल्यविशेषाधिकं कर्मज्ञानावरणादि प्रकुर्वन्ति बध्नन्ति तथा तुल्यस्थितयः वेमायविसेसाहियं ति विमात्र:अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्खयेयभागरूपोऽन्यस्य सङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं पूर्वकालबद्धकर्मापेक्षया यत्तत्तथा 2 तथा वेमायट्ठिइय त्ति विमात्रा विषममात्रा, स्थितिरायुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः // 16 04 //
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562