Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1635 // अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाह चुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहिं। भावाभावमणंता पन्नत्ता एत्थमंगंमि॥१॥ चुलसी त्यादि, चतुरशीतिः शतसहस्राणि पदानामत्राङ्ग इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला ये ते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह भावाभावमणंत त्ति भावा जीवादयः पदार्थाः, अभावाश्च त एवान्यापेक्षया भावाभावाः, अथवा भावा विधयः, अभावा निषेधाः, प्राकृतत्वाच्चेत्थंनिर्देशः अनन्ताः अपरिमाणाः, अथवा भावाभावैर्विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि अत्र प्रत्यक्षे पञ्चम इत्यर्थः अङ्गे प्रवचनपरमपुरुषावयव इति गाथार्थः // 1 // अथान्त्यमङ्गलार्थं संघं समुद्ररूपकेण स्तुवन्नाह तवनियमविणयवेलोजयति सदा नाणविमलविपुलजलो। हेतुसतविपुलवेगोसंघसमुद्दो गुणविसालो॥२॥ तवे त्यादि गाथा, तपोनियमविनया एव वेला- जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा जयति जेतव्यजयेन विजयते सदा सर्वदा, ज्ञानमेव विमलं निर्मलम्, विपुलं विस्तीर्णम्, जलं यस्य स तथा, अस्ति (अस्ताघ) त्वसाधर्म्यात्स तथा, हेतुशतानि- इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येव विपुलो महान्, वेगः कल्लोलावतादिरयो यस्य विवक्षितार्थ-2 2 // 1635 // क्षेपसाधनसाधर्म्यात्स तथा संघसमुद्रः जिनप्रवचनोदधिर्गाम्भीर्यसाधर्म्यात्, अथवा साधर्म्य साक्षादेवाह-गुणैः- गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तथेति गाथार्थः॥२॥
Loading... Page Navigation 1 ... 555 556 557 558 559 560 561 562