Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 556
________________ श्रीभगवत्यई श्रीअभय वृत्तियुतम् भाग-३ // 1634 // 41 शतके उद्देशकः 1-196 सूत्रम् 867-868 राशियुग्मशतकम्। रासीजुम्म त्ति युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न तु रासाजुम्मा द्वितयरूपाणीति राशियुग्मानि॥१॥रासीजुम्मकडजुम्मनेरइय त्ति राशियुग्मानां भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्चेति समासोऽतस्ते॥२॥अणुसमय मित्यादि, पदत्रयमेकार्थम् ॥३॥आयजसेणं ति आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः संयमः आत्मयशः, तेन, आयजसं उवजीवंति त्ति 'आत्मयशः' आत्मसंयमं उपजीवन्ति आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्तिः, उत्पत्तौ सर्वेषामप्यविरतत्वादिति // 10 // इह च शतपरिमाणमिदंआद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि 32 त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमवान्तरशतानि द्वादश 84 चत्वारिंशे त्वेकविंशतिः 21 एकचत्वारिंशे तु नास्त्यवान्तरशतम् 1, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति,। एवमुद्देशकपरिमाणमपि सर्व शास्त्रमवलोक्यावसेयम्, तच्चैकोनविंशतिशतानि पञ्चविंशत्यधिकानि // 867-868 // इह शतेषु कियत्स्वपिवृत्तिकां, विहितवानहमस्मि सुशङ्कितः। विवृतिचूर्णिगिरां विरहाद्विक्, कथमशङ्कमियय॑थवा पथि?॥१॥ एकचत्वारिंशंशतं वृत्तितः परिसमाप्तम् // 41 // ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ एकचत्वारिंशं शतकं समाप्तम् // 0 यद्यपि संग्रहणीगाथानुसारियन्त्रकानुसारेण त्रयोविंशत्यधिकमेकोनविशं शतमुद्देशकानां भवति परं वादान्तराभिप्रायेण विंशतितमे शतके द्वादशोद्देशकाः यतस्तत्र न प्रस्तुतवाचनायामिव षष्ठः पृथ्व्युद्देशकः पृथ्व्यब्वायुस्वरूपाभिधायां किंतूद्देशकत्रयमेव भिन्नम्, अत्र तु त्रयाभिधाय्यपि पृथ्व्युपलक्षणत्वात् पृथ्व्युद्देशकस्त्रयाभिधाय्यप्येक // 1634 // एवेति।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562