SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1604 // 34 शतके उद्देशकः१ सूत्रम् 851 अध: पृथ्व्यादीनामूर्ध्वादावुत्पादः बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पश्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्त उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात्, पूर्वचरमान्तात्पुनर्दक्षिणचरमान्त उत्पद्यमानस्य व्यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति // 22 / / एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह कहिं ण मित्यादि, सट्ठाणेणं ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः जहा ठाणपदे त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदम्, तच्चैवं- 'तंजहा- रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, एगविह त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः अविसेसमणाणत्त त्ति अविशेषा विशेषरहिताः, यथा पर्याप्तकास्तथैवेतरेऽपि अणाणत्त त्ति अनानात्वा:नानात्ववर्जिताः, येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः सव्वलोयपरियावन्न त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्तन्त इति भावना, तत्रोपपात- उपपाताभिमुख्यं समुद्धात इह मारणान्तिकादि स्वस्थानं तु यत्र त आसते // 27 / / समुद्धातसूत्रे वेउब्वियसमुग्घाए त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति // 32 // एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह एगिदिया ण मित्यादि, तुल्लट्ठिइय त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः तुल्लविसेसाहियं कम्मं पकरेंति त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण- असत्येयभागादिना, अधिकं पूर्वकालबद्धकर्मापेक्षयाऽधिकतरंतुल्यविशेषाधिकं कर्मज्ञानावरणादि प्रकुर्वन्ति बध्नन्ति तथा तुल्यस्थितयः वेमायविसेसाहियं ति विमात्र:अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्खयेयभागरूपोऽन्यस्य सङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं पूर्वकालबद्धकर्मापेक्षया यत्तत्तथा 2 तथा वेमायट्ठिइय त्ति विमात्रा विषममात्रा, स्थितिरायुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः // 16 04 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy