________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1603 // | 34 शतके उद्देशकः१ सूत्रम् 851 अधः पृथ्व्यादीनामूर्ध्वादावुत्पादः अपज्जत्तसुहुमे त्यादि, अहोलोयखेत्तनालीए त्ति अधोलोकलक्षणे क्षेत्रे या नाडी- सनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, तिसमइएण व त्ति,अधोलोकक्षेत्रे नाड्या बहिः पूर्वादिदिशि मृत्वैकेन नाडीमध्ये प्रविष्टो द्वितीये समय ऊर्द्धगतस्तत एकप्रतरे पूर्वस्यां पश्चिमायांवायदोत्पत्तिर्भवति तदाऽनुश्रेण्यांगत्वा तृतीयसमय उत्पद्यत इति, चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमायामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीय ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदं च प्रायोवृत्तिमङ्गीकृत्योक्तम्, अन्यथा पञ्चसामयिक्यपि गतिः सम्भवति, यदाऽधोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः सुत्ते चउसमयाओ नत्थि गई उ परा विणिद्दिट्ठा। जुज्जइ य पंचसमया जीवस्स इमा गई लोए॥१॥जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उववज्जइ गईए सो नियमा पंचसमयाए॥२॥उजुयायतेगवंका दुहओवंका गई विणिद्दिट्ठा। जुज्जइ य तिचउर्वकावि नाम चउपंचसमयाए॥३॥ उववायाभावाओ न पंचसमयाऽहवा न संतावि। भणिया जह चउसमया महल्लबंधे न संतावि॥४॥ अपज्जत्ताबायरतेउक्काइए ण मित्यादौ, दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्जत्ति, एतस्येयं भावना समयक्षेत्रादेकेन समयेनोवं गतौ द्वितीयेन तु नाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति तथा समयक्षेत्रादेकेनोद्धं याति द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति॥१५॥ अथ लोकचरमान्तमाश्रित्याह अपज्जत्तासुहमपुढविकाइएणं भंते! लोगस्से त्यादि, इह च लोकचरमान्ते O सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा। युज्यते च जीवस्येयं पञ्चसमया लोके गतिः॥१॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पञ्चसमयया गत्या / / 2 / / ऋज्वायतैकवक्रा द्विधावक्रा च गतिर्विनिर्दिष्टा / युज्यते च नाम त्रिचतुर्वक्राऽपि चतुष्पञ्चसमयतया॥३॥ उपपाताभावान्न पञ्चसमयाऽथवा सत्यपि यथा महन्धे न चतुः समयोक्ता तथा न भणिताऽल्पत्वादिना // 4 // R // 1603 //