Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 9
________________ विशेषा० ॥१००७॥ तदत्र व्याख्याने क्षीरनीरन्यायेन वह्नितप्तायोगोलकन्यायेन वा जीवप्रदेशैः सह कर्म संबद्धमिति पर्यवसितं विन्ध्यसमीपे श्रुत्वा तथाविधकर्मोदयादभिनिवेशेन विप्रतिपन्नो गोष्ठामाहिला प्रतिपादयति-ननु सदोषमिदं व्याख्यानम् , यस्मादेवं व्याख्यायमाने भवतां मोक्षाभावः पामोति, जीवप्रदेशैः सह कर्मणामविभागेन तादात्म्येनावस्थानादिति ॥२५१३॥२५१४॥२५१५॥ अमुमेवार्थ प्रमाणतः साधयन्नाहन हि कम्मं जीवाओ अबेइ अविभागओ पएसो व्व। तदणवगमादमुक्खो जुत्तमिणं तेण वक्खाणं ॥२५१६॥ 'न हि- नैव कर्म जीवादपैति' इति प्रतिज्ञा। अविभागात्- वययोगोलकन्यायेन जीवेन सह तादात्म्यादित्यर्थः, एष हेतुः । 'पएसो व्व त्ति' जीवप्रदेशराशिवदित्यर्थः, एष दृष्टान्तः । इह यद् येन सहाविभागेन व्यवस्थितं न तत् ततो वियुज्यते, यथा जीवात् तत्प्रदेशनिकुरम्बम् , इष्यते चाविभागो जीव-कर्मणोर्भवद्भिः, इति न तत् तस्माद् वियुज्यते । ततस्तदनपगमात् तस्य कर्मणो जीवादनपगमादवियोगात् सर्वदैव जीवानां सकर्मकत्वाद् मोक्षाभावः । तेन तस्मादिदमिह मदीयं व्याख्यानं कर्तुं युक्तमिति ॥ २५१६ ॥ किं तत् ? इत्याह- पुट्ठो जहा अबद्धो कंचुइणं कुंचुओ समन्नेइ । एवं पुट्ठमबद्ध जीवं कम्मं समन्नेइ ॥ २५१७ ॥ यथा स्पृष्टः स्पर्शनमात्रेण संयुक्तोऽवद्धः क्षीरनीरन्यायादलोलीभूत एव कञ्चुको विषधरनिर्मोकः कञ्चुकिनं विषधरं समन्वेति समनुगच्छति, एवं कर्मापि स्पृष्टं सर्पकञ्चुकवत् स्पर्शनमात्रेणैव संयुक्तमबद्धं वह्नययःपिण्डादिन्यायादलोलीभूतमेव जीवं समन्वेति, एवमेव मोक्षोपपत्तेरिति ॥ २५१७॥ तदेवं कर्मविचारे विप्रतिपत्तिमुपदर्येदानी प्रत्याख्यानविषयां विपतिपत्तिमुपदर्शयन्नाहसोऊण भन्नमाणं पच्चक्खाणं पुणो नवमपुव्वे । सो जावज्जीवविहियं तिविहं तिविहेण साहूणं ॥ २५१८ ॥ RSSBharaaa १ न हि कर्म जीवादपैयविभागतः प्रदेश इव । तदनपगमादमोक्षो युक्तमिदं तेन व्याख्यानम् ॥ २५१६॥ २ स्पृष्टो यथाऽवतः कन्चुकिन कन्चुकः समन्वेति । एवं स्पृष्टमबद्ध जीवं कर्म समन्वेति ॥ २५१७ ॥ भुत्वा भण्यमानं प्रत्याख्यानं पुनर्नवमपूर्वे । स यावज्जीवविहितं त्रिविधं निविधेन साधूनाम् ॥ २५१४॥ १००७॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 202