Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 196
________________ 5 10 पटले, 29-35 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः श्रीश्वेता चन्द्रलेखा शशधरवदना हंसवर्णा धृतिश्च पद्मेशा तारनेत्रा विमलशशधरा चेशपद्मे सचिह्नाः / तद्वाह्ये सूर्यपद्मे दनुकचलयमाः पावकः षण्मुखश्च यक्षः शक्रोऽब्धिवक्त्रः पशुपतिरुदधिः श्रीगणेन्द्रश्च विष्णुः // 33 // ततो लक्ष्म्याः पूर्वपत्रादौ श्रीश्वेता, चन्द्रलेखा, शशधरवदना, हंसवर्णा, धृतिः, पोशा, तारनेत्रा, विमलशशधरा ईशपद्मे सचिह्ना इति चतुःषष्टियोगिन्यश्चचि[263a]कादीनां पद्मदलेषु वाङ्मण्डले नायिका इति वेदनाङ्गे तृष्णाङ्गेऽपि सर्वकायवज्रनिष्पत्तिः। 'ललाटाद् गुह्य कमलान्तं कायनिष्पत्तौ वेदितव्यं चतुरस्रम् / तत्र यानि हस्तपादेषु द्वादश, सन्धौ द्वादशकमलानि। कर्मचक्रे क्रियाचक्रे। अष्टाविंशद्दलानि नाडी देवतामूर्त्या उत्सर्जयेद् अष्टमे मासे / तद्वाह्ये सूर्यपद्म इति / तस्य बाह्ये कायमण्डले द्वादशपद्धेषु पूर्वद्वारस्य सव्यभागादौ प्राकारभित्तौ खगर्भादिवद् नैऋत्यादयो यथासंख्यमुच्यन्ते। दनुक इति नैऋत्यः। पूर्वद्वारसव्ये 'चल इति वायुराग्नेय्याम् / यम इति दक्षिणद्वारवामे / सव्ये पावकः। नैऋत्ये षण्मुखः। पश्चिमद्वारवामे यक्षः। सव्ये शक्रः / वायव्ये ब्रह्मा। उत्तरद्वारवामे रुद्रः। दक्षिणे समुद्रः / ईशाने गणपतिः। पूर्वद्वारवामे विष्णुरिति सर्वे चतुर्भुजाः॥ 33 // खङ्गः कर्ती द्रुमेन्द्रः सुरतरुकुसुमं दण्डखङ्गश्च शक्तिदंण्ड: शक्तिश्च कुन्तो मणिरपि च गदा वज्रमेवाग्निबाणः / सूची चाप्यक्षसूत्रं भवति करतले शूलबाणं च पाशो रत्नं पशुश्च वज्रं भवति हरिकरे चक्रदण्ड श्च सव्ये // 34 // एषां द्वादशानां यथाक्रमेण सव्यहस्तद्वये चिह्नानि भवन्ति / नैऋत्यस्य प्रथमे खड्गः, द्वितीये की। वायोः प्रथमे द्रुमेन्द्रः कल्पवृक्षः, द्वितीये पारिजातकपुष्पम् / यमस्य प्रथमे दण्डः, द्वितीये खगः। वैश्वानरस्य प्रथमे शक्तिः, द्वितीये दण्डः / षण्मुखस्य प्रथमे शक्तिः, द्वितीये कुन्तः / धनदस्य प्रथमे मणिरत्नम्, द्वितीये गदा। इन्द्रस्य प्रथमे वज्रम्, द्वितीयेऽग्निबाणः। ब्रह्मणः प्रथमे सूची, द्वितीयेऽक्षसत्रम् / रुद्रस्य प्रथमे त्रिशूलम, द्वितीये बाणः। वरुणस्य प्रथमे पाशः, द्वितीये रत्नम् / विनायकस्य प्रथमे पशुः, द्वितीये वज्रम् / विष्णोः प्रथमे चक्र, द्वितीये गदेति // 34 // [263b] वामे खेटे कपालं त्वसितमणिरपि युत्पलं शृङ्खला च पाशाऽब्जं कुण्डिका वे भवति नरपते वामहस्ते क्रमेण / 1. ख. ललाटाङ्गष्ठकमलान्तं / 2. क. कलान्तं / 3. भो. 'चतुरस्र' नास्ति / 4. क. ख. 'तत्र' नास्ति / 5. क.ख. च. स्कन्धौ / ६.क. ख. बल / 22

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280