Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 258
________________ पटले, 261-167 श्लो.] नानासाधनमहोद्देशः 231 ____ततः सहस्र होमे पूर्णे सति ज्वलन् वै ललदसिरसनस्तीक्ष्णदंष्ट्रस्त्रिनेत्रो गर्जन् 'T 362 विस्फोटयन् यः क्षितिमपि चरणैः साधकं भीषयन्, स: प्रेतकाये प्रविष्टोऽसुरेन्द्र इत्थंभूतः स्थित्वा कुण्डान्तराले हसति कहकहं नृत्यते भीमकायः / तं दृष्ट्वा भीतमन्त्री व्रजति यमपुरं नष्टचित्तः क्षणेन // 163 / / भेतव्यं नासुरेन्द्रादपि चितिभुवने मन्त्रिणा सिद्धिहेतोदृष्ट्वा निष्कम्पचित्तं वदति पुनरिदं साधितो भूतनाथः / सिद्धोऽहं ते[300a] सुवीर वद सकलमहं साम्प्रतं किं करोमि इत्युक्ते साधकेन स्वमनसि रुचितं प्रार्थनीयं परार्थम् // 164 // स्पर्श खड्गं रसेन्द्रामृतफलगुटिका रोचनं चाञ्जनं च यल्लेपं पादकां चाददतु मम भवान् लौकिकीमष्टसिद्धिम् / विद्वेषोच्चाटनं वै भुवननिधनतां स्तम्भनाकृष्टिवश्यं सर्व मे यातु सिद्धिं स च वदति पुनः सर्वमेतत् करोमि / / 165 // भूतेन्द्रं साधयित्वा व्रजति नरपते साधको यत्र तत्र पाताले चान्तरीक्षे सुरवरभवने मेरुशृङ्गेऽब्धिपारे / तत्रारूढोऽसिहस्तः क्षितितलनिलये लोककायं करोति तस्मात् सत्त्वार्थहेतोः परमकरुणया साधनीयोऽसुरेन्द्रः // 166 / / अत ऊर्ध्वं वृत्तत्रयं सुबोधम्, भेतव्यं नासुरेन्द्राद् इत्यारभ्य साधनीयोऽसुरेन्द्र इति पर्यन्तम् / एवमसुरेन्द्रसाधननियमः॥ 164-166 // इदानी मन्त्रलक्षणमुच्यतेनामाद्यं चित्तवज्रं भवति नरपते देवतादेवतीनां 20 वाग्वजं सर्वनामाक्षरमपि च ततश्चाधिकं कायवज्रम् / तस्मात् प्रत्यङ्गमन्त्रो भवति बहुविधः पाठसिद्धः कदाचिद् भाव्यो याज्यश्च जाप्यः स्वजिनकुलवशाच्चित्तवाक्कायभेदैः // 167 / / नामाद्यमित्यादि / इह त्रैधातुके स्थिरचलधर्माणां यद्यस्य नाम, तस्य नामस्याद्यक्षरं मामाद्यं तदेव चित्तवज्रं भवति नरपते देवतादेवतीनां वाग्वजं सर्वनामेति / इह यथा तारा पाण्डरा मामकी लोचना नाम, तदेव वाग्वजम् / एवं सर्वेषां भावानामिति / एवं सर्वनामाक्षरमपि ततश्चाधिकं कायवज्रमिति / इह यथा-ॐ तारे तुतारे तुरे स्वाहा, ॐ पाण्डरवासिनि वरदे स्वाहा, ॐ मामकि [300b] किरि किरि स्वाहा, ॐ 25

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280