Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 273
________________ 246 विमलप्रभायां जात्यश्वो[308b] गर्दभेन प्रवरगजपतिलभ्यते यद्यजेन भार्यादानेन देवो जिनजनककुले तत्र किं नेष लाभः // 209 // मैत्रीस्थाने न दानं श(स)मसुखफलदं तुल्यसत्त्वप्रभावात् सूपेक्षास्थान एवं प्रवरजिनकुले मारसत्त्वप्रभावात् / हीनत्वादुत्तमत्वात् सकरुणमुदितास्थानयुग्मे प्रदत्तः(तो) संभारौ द्वौ प्रपूर्याक्षरसुखफलदं सौगतानां परार्थम् // 210 // वर्णो यस्य प्रमाणं भवति नरपते तस्य वेद[:] प्रमाणं वेदो यस्य प्रमाणं खलु भुवि निलये तस्य यज्ञ[:] प्रमाणम् / यज्ञो यस्य प्रमाणं विविधपशुनृणां तस्य हिंसा प्रमाणं . हिंसा यस्य प्रमाणं नरकभयकरं तस्य पापं प्रमाणम् // 211 / / वासनासार्थमिष्टां कथयति भगवान् श्रीविहारप्रतिष्ठां भैषज्याहारदानं किल रुजशमनं तत्र दाता ददाति / दानाभावे विहारः क्षितितलनिलये तिर्यगावास एष ग्रासो यत्रैव संघो भवति नरपते तत्र बुद्धश्च धर्मः // 212 // बुद्ध धर्म च संघं शरणमनुगता मानुषा मोक्षहेतो यं बुद्धो विहारे स्थित इह लिखितः पुस्तको धर्म एव / संघः काषायधारी परमविभुसुखं जन्मलार्ददाति आचार्यो बुद्ध एव प्रवरभवितले देशना तस्य धर्मः // 213 // संघस्तस्मिन् स्थितो यः प्रमुदितहृदयः सर्वसत्त्वानुकम्पी सोऽस्मिन्नुक्तश्चतुर्धा द्विविध इह पुनः श्रावकोऽनुत्तरश्च / भिक्षुण्यो भिक्षवश्वापि पुनरिह महोपासकोपासिकाश्च योगिन्यो योगिनो वै सहजसुखरतोपासकोपासिकाश्च // 214 // पुण्यज्ञानार्थहेतोविविधमपि सदा दानमत्यर्थमिष्टं भोज्याद्यं श्रावकेभ्यः परमसुखकरं योगिनामिष्टदानम् / [309a] दातारो ये ददन्ति प्रमुदितहृदयाः सर्वदा रक्तचित्तास्ते पुण्यज्ञानपूर्णाः परमसुखपदं जन्मनीह व्रजन्ति // 215 //

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280