Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ पटले, 232-234 श्लो.] नानासाधनमहोद्देशः 251 सर्वस्मिन्नित्यादि / इह सर्वस्मिस्तन्त्रराजे समाजादिके उपायतन्त्रे, चक्रसंवरादिके प्रजातन्त्रे खलु कुलिशपदं पूर्वोक्तमक्षरसुखं योगिनामिति / तदुक्तं भगवता 'तद्यथा भगवान् बुद्धः संबुद्धोऽकारसम्भवः / अकारः सर्ववर्णाग्यो महार्थः परमाक्षरः॥ महाप्राणो ह्यनुत्पादो वागुदाहारजितः / सर्वाभिलापहेत्वयः सर्ववाक्सुप्रभास्वरः // ( ना. सं. 5.1-2) इत्यादि, "ज्ञानकाय नमो नमः" ( ना० सं. 11.5) इति पर्यन्तं द्वाषष्टयधिकशतवृत्तेनोक्तो ज्ञानकायो नामसंगीत्याम् / स एव कुलिशपदमुच्यते / सर्वस्मिन् तन्त्रराजे / तदेव बालानां पाचनार्थ परमकरुणया गोपितं विश्वभ[311b]ळ द्वोन्द्रियसुखं प्रतिपादितं बालानामिति / तस्मात् तं कुलिशपदं भेदयित्वा प्रतिदिनसमयेऽ- हर्निशं योगिनेति तीक्ष्णेन्द्रियेण पूर्वोक्तचक्षुषा भावनीयं मुद्रासिद्धिनिमित्तमिति महामद्रासिद्धये। किं तत् ? जिनवरजनकाऽनाहतं कालचक्रं तदिति नियमो भगवतः सर्वतन्त्रान्तरे योगिभिरवगन्तव्यः संबुद्धपदलाभायेति। 10 इति श्रीमूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां विमलप्रभायां द्वादशसाहस्रिकायां नानासाधनमहोद्देशः पञ्चमः // 15 साधनापटलस्य टोका समाप्ता। ["तन्मण्डलत्रितयबोधितशे(षे)करत्नराजप्रबोधितभुवः परमाद्भूतार्थाः। उक्तस्तु साधयितुमिष्टतमः परार्थ नानार्थसाधनविधिः स षडङ्गयोगः॥ प्राप्तं मया कुशलमावुकदत्तकेन संलेख्य साधनविधेः पटलं हि तेन / लोकोत्तराद्वयसुखाकररत्नमू| ज्ञानकचक्षुरमलः सकलोऽस्तु लोकः // ] . 1. अथ वज्रधरः श्रीमान् इत्याद्यारभ्य इति चेत्साधु ? 2. क. ख. छ. नियम इति / 3. क. ख. च. छ. 'श्री' नास्ति / 4. 'तन्मण्डल"" लोकः' भो. नास्ति / श्लोकद्वयं प्रतिलिपिकर्तुरस्ति न तु टीकाकारस्य /
Loading... Page Navigation 1 ... 276 277 278 279 280