Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ 249 10 पटले, 222-232 श्लो.] नानासाधनमहोद्देशः ऊँ आःहूँ होः क्रमस्थैः प्रथममिह सदा बोधयेच्छोधयित्वा मद्यं प्रज्वालयित्वा द्रुतशशिन मिवाभावयित्वा क्रमेण / तत्पात्राद् बिन्दुना वै शशिकरकमलानामिकाग्रेण भूम्यां कृत्वा बाह्ये त्रिकोणं दिनकरसदृशं वर्तुलं तस्य मध्ये // 229 // तन्मध्ये ज्ञानचक्रं त्रिभवमपि गतं भावयित्वा स मन्त्री अङ्गुष्ठानामिकाभ्यां प्रतिदिनसमये तर्पणाद्यं करोति / देशग्रामाधिपानां प्रथममिह बलि चादिमध्यान्तनाम्ना हारीत्याः पिण्डके द्वे पुनरपि च बलिं क्रोधराजाय मन्त्री // 230 // दूतीनां ग्रासमनं क्षितितलनिलये भर्तृवज्रदंदाति भूतानां भुक्तशेषं पठति पुनरिमां दानगायां शुभार्थम् / अङ्गन्यासं स्ववज्रः शिरसि गलहृदो भिगुह्ये च मूनि निद्राकालेऽङ्गवक्त्रैरुभयकुलगतैरर्चने मेथुने च // 231 // अतो नवत्यधिकशतवृत्तादूवं चत्वारिंशद् वृत्तानि सुबोधानि / “यः शब्दो हृत्प्रदेशे" (4.192) इत्यादिना "दूतीनां ग्रासमग्रम्” (4.231) इति पर्यन्तं कतिपयवृत्तानि सुबोधानि, कतिपयवृत्तान्यभिषेकपटलेऽध्याहारेणोक्तानि कार्यवशादिति // 192-231 // इदानीं लोकोत्तरलौकिकसिद्धये देवतालम्बनमुच्यतेप्रत्यक्षं चानुमानं द्विविधमपि भवेद् देवतालम्बनं यत् प्रत्यक्षं तत्त्वयोगादुडुरिव गगनेऽनेकसम्भोगकायम् / अप्रत्य[310b]क्षेऽनुमानं मृतकतनुरिवातत्त्वतः कल्पनं यचित्रादी दर्शनीयं ह्यपरिणतधियां योगिनां भावनार्थम् // 232 // प्रत्यक्षमित्यादि / इह सत्त्वानामाशयवशेन योगिनां प्रत्यक्षं चानुमान द्विविधमपि भवेद्देवतालम्बनं यत् / तयोः प्रत्यक्षानुमानयोर्यत् प्रत्यक्षं तत्त्वयोगाद् गगने Largana उडुरिव 'भवेत् ताराचक्रमिवानेकसंभोगकायमिति / मांसादिचक्षुाह्यं मायास्वप्न मास्वप्न. सदृशं त्रिभवं त्र्यध्वनि। अत्र प्रथमं मांसचक्षुषा योगी आदिकर्मिको विश्वं पश्यत्यभिज्ञा- भिविना। ततो दिव्यचक्षुषा पश्यत्यभिज्ञाविधिवशात् / ततो बुद्धचक्षुषा पश्यति वीतरागावधिवशतः / ततः प्रज्ञाचक्षुषा पश्यति बोधिसत्त्वावधिवशतः। ततो 1. च. भवति / 15 20 25 32
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280