Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 274
________________ 247 10 पटले, 209-222 श्लो.] नानासाधनमहोद्देशः आचार्य निन्दयन्ति प्रकटमपि जिनं श्रावका येऽप्रबुद्धास्तेऽवीचिं यान्ति शीघ्रं परमभयकर मारिता विघ्ननार्थः / स्वाधिष्ठानं करोति प्रवरजिनपतिर्यस्य मन्त्रप्रभावैः को भिक्षुस्तस्य तुल्यो व्रतनियमपदे ब्रह्मचारी नराणाम् / / 216 // कष्टं कुर्वन्ति सर्वे परमसुखरता भिक्षुको वा परिवाड् नग्नो मौण्डी जटी च श्रुतपठनरतः पण्डितो मार्गनष्टः / कर्तुश्चात्मग्रहेण स्वपरमिह सदा पुत्रदारग्रहेण भक्ष्याभक्ष्यग्रहेणाप्यकुलकुलरतापात्रपात्रग्रहेण // 217 // बुद्धक्षेत्रं समस्तं श(स)मसुखफलदं कायवाक्चित्तरागं एतत्संहारयित्वा त्वपरमपि विभुं पापबुद्धिः समीक्षेत् / क्षेत्रे तीर्थेऽन्यदेशे व्रतनियमशतैर्लङ्घनैः शैलपातैः संग्रामे ग्रस्तसूर्ये विषयसुखरतोऽनेकशस्त्राग्निघातैः // 218 // मारैरेतत्समस्तं रचितमपि पुरा रक्तपानस्य हेतोः स्वर्गस्तीर्थोपवासैमरणमुपगतस्याहतस्यैव . युद्धे / गोभानोर्मोचनार्थे गृहधनविषये विप्रकार्ये मृतस्य 15 तस्मादेषः स्वकायः समसुखनिलयो रक्षणीयः परस्य // 219 // * श्रुत्वा यस्तन्त्र राजे जिनवरचरितं चाभिषेकं गृहीत्वा ईष्या भूयः करोति प्रविशति नरकं सोऽष्टमं यावदेव / यस्मिन् सूच्यग्रभूमावशुभफलवशान्नारकाः संचरन्ति तस्माद् ग्राह्योऽभिषेको नहि भवति नृणां यावदीर्ध्यास्ति चित्ते॥२२०॥ 20 दानं शीलं प्रपूर्ण जिनजनककुले क्षान्तिवीयं च पूर्ण ध्यानं प्रज्ञाऽभ्युपायः प्रणिधिरपि बलं ज्ञानपूर्ण ह्यनेन / भार्या[309b]दानेन शीघ्रं प्रमुदितमनसो योगिनो जन्मनीह कृत्वाऽस्मिन् रागबन्धं नरकमुपगता मोहिता ये नरास्ते // 221 // पृथ्वीलक्ष्मीनिमित्तं सुचपलहृदयस्तीक्ष्णखड्ग गृहीत्वा योधाकीर्णे समन्तात् प्रविशति हि रणे कातरश्चातुरङ्गे। 23

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280