Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 275
________________ 248 विमलप्रभायां - [साधनादृष्टवा मातङ्गवृन्दं पतति करतलात् तस्य भीतस्य खगस्तस्मिन् खड्गस्य दोषो नहि भवति यथा मन्त्रजातेस्तथैव // 222 // मन्त्र:रक्रमेणाप्यसुरफणि सुरान् साधयेद् रौद्रभूम्यां स्वाधिष्ठानेन देवीः समयकुलगता ध्यानजापैः सहोमैः। सेकं शुद्धक्रमेण त्वनवरतमहानन्दचित्तेन मन्त्री ज्ञानं चिन्तामणिर्यत् प्रभवति च ततश्चेष मार्गो जिनस्य / / 223 // सूतस्याग्ने रिपुत्वं न शिखिविरहितः सूतबन्धः कदाचिन्नाबद्धो हेमकर्ता कनकविरहिता वादिनां नैव भोगाः / . एवं स्त्रीसङ्गहीनो नहि भवति सदा योगिनां चित्तबन्धो नाबद्धः कायवेधी सहजसुखमिहाविद्धकायो ददाति // 224 / / उद्याने पर्वते वा जनमृगरहिते साधयेत् सौम्यमन्त्रान् रौद्रान् रौद्रश्मशाने सुरवरभवने स्तम्भनं - मोहनं च। वश्याकृष्टिश्च मन्त्री परमविभुसुखं सर्वमुद्राप्रसङ्गे .. अन्यस्थानेऽन्ययोनी नहि भवति नृणां जन्मलक्षश्च सिद्धिः // 225 // वेश्मग्रामेऽक्षिसूत्रैदिननिशिसमये मन्त्रजापं हि कृत्वा . श्रान्तो मूढो विरक्तो वदति पुनरिदं मन्त्रसिद्धिश्च नास्ति / स्थानं शून्यं च कालं परमनिशिगतं नैव जानाति सम्यग्. रोगः पादाङ्गुलीषु प्रति शिरसि करोत्यौषधीभिः प्रलेपम् // 226 // न ध्यानं मन्त्रजापः करणमपि महामण्डलान्यासनानि होमो मन्त्रप्रतिष्ठा रजसि जिनकुलावाहनं प्रेषणं च / मुद्रासि[310a]द्धि ददाति प्रवरविभुसुखं सर्वमुद्राप्रसङ्गे तस्मात् तद्भावनीयं प्रतिदिनसमये योगिना मोक्षहेतोः // 227 // मूछौं निद्रां प्रविष्टं भवति नरपते निःस्वभावं स्वचित्तं जाग्रायां सस्वभावं प्रकटयति न तत् प्राणिनां मोक्षमार्गम् / भावाभावैविभिन्नं नहि समसुखदं योगिनां चित्तवज्र स्वप्रज्ञालिङ्गितं यत् सहजसुखगतं मोक्षदं तत्स्वचित्तम् // 228 / / 15

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280