Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ 245 पटले, 196-209 श्लो.] नानासाधनमहोद्देशः वेदान्ते गुह्यमेतत् कथितमपि पुरा ब्रह्मणा योगिनां वे. कालाज्ज्ञानप्रणष्टैर्मुनिभिरिह वधो देशितः प्राणिनां च / जाता[3084] तस्मिन् प्रवृत्तिः कुनरकफलदा स्वर्गहेतोर्नराणामङ्गारो नेन्दुवर्णः क्वचिदिह हि भवेत् क्षीरधाराभिषिक्तः / / 203 // निर्योगैर्वेदवाक्यैः समयविरहितैर्वञ्चिता ये नरास्ते रक्षां कृत्वा स्वनार्या दिननिशिसमये स्वात्मपुत्रार्जनार्थम् / दानं पुत्रेण दत्तं भवति किल पितुः प्रेतलोकं गतस्य तेनेदं कामदानं श(स)मसुखफलदं गोपितं दुष्टविप्रैः // 204 / / जात्यश्वे नान्यपुंसो यदि भवति महाघोटिकायां महाश्वो लक्ष्मीश्चाश्वप्रभावात् पुनरपि च भवेत् स्वामिनः किन्न लाभः / 10 रक्षां कुर्वन्ति येन प्रतिदिनसमये रागिणः स्वस्वनार्याः कस्त्वं का ते स्वनारी मरणमुपगतेऽहोऽशुभः कर्मबन्धः // 205 // गोदानं भूमिदानं ह्यपरमपि तथा भोगदं मर्त्यलोके भैषज्याहारदानं सकलरुजहरं क्षुत्पिपासाहरं च / सर्वस्मिन् कामदानं श(स)मसुखफलदं किं पुनश्चक्रकाले 15 इष्टा भार्या भगिन्यपि सुभगदुहिता गुह्यदाने प्रदेया // 206 // सद्वेश्या कर्ममुद्रा भवति च समया गुप्तनारी परस्त्री. स्वच्छन्दा धर्ममुद्रा बहुविषयरता ज्ञानमुद्रा स्वभार्या / सद्वेश्या द्वादशाब्दा परमसुखरता षोडशाब्दा कुलस्त्री स्वच्छन्दा विशदब्दा भवति स्वदुहिता त्रिंशदब्दा स्वभार्या // 207 // 20 पूर्व बुद्धर्धरित्री गजतुरगरथानेकसौवणंभावा दत्ता बुद्धत्वहेतोः पुनरपि च शिरो रक्तमांसं प्रदत्तम् / एभिर्बुद्धत्वमिष्टं नहि भवति ततः कामदानं प्रदत्तं बुद्धत्वं तेन जातं जिनजनककुले गुह्यदानेन पुंसाम् // 208 / / हेमं ताम्रण तुल्यं सुरमुकुटमणिः काचखण्डेन तुल्यः सद्वेश्या कामदानेरमलकुलवधूश्चर्मखण्डेन / नाभिः / 25
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280