Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ 244 विमलप्रभायां [साधना- . चक्राच्चक्रान्तरं वै मृदुललितगतिश्चालिता मध्यनाड्यां यावच्चोष्णीषरन्धं स्पृशति हठतया सूचिवद् बाह्यचर्म // 196 // आपानं तत्र काले परमहठतया प्रेरयेदूर्ध्वमार्गे उष्णीष भेदयित्वा व्रजति वरपुरं वायुयुग्मे निरुद्ध / एवं वज्रप्र[307b]भेदान्मनसि सविषयात् खेचरत्वं प्रयाति पञ्चाभिज्ञास्वभावा भवति पुनरियं योगिनां विश्वमाता // 197 // मुद्रा मायानुरूपा मनसि च गगने रूपवदर्पणे च त्रैलोक्यं भासयन्ती तडिदनलनिभाऽनेकरश्मीन् स्फुरन्ती।। बाह्ये देहेष्वभिन्ना विषयविरहिता भासमानाऽम्बरस्था चित्तं चेतो मयाऽऽलिङ्गयति च जगतोऽनेकरूपस्य सैका // 198 // त्यक्त्वेमां कर्ममुद्रां सकलुषहृदयां कल्पितां ज्ञानमुद्रां सम्यक् संबोधिहेतोजिनवरजननीं भावयेद् दिव्यमुद्राम् / निर्लेपां निर्विकारां खसमहततमां व्यापिनी योगिगम्यां कूटस्थां ज्ञानतेजां भवकलुषहरां कालचक्रानुविद्धाम् // 199 / / विज्ञानं नाणुरूपं त्रिभव इह तथा नास्ति विज्ञानमेव बुद्धप्रज्ञा स्थिता न क्वचिदिति वचनं देशयिष्यन्ति बौद्धाः / शून्यं यास्यन्ति येनाक्षररहितनराः शून्यतां तां गृहीत्वा भ; तेनाच्युतं यत्सहजतनुसुखं देशितं मन्त्रयाने // 20 // गोखङ्गाश्वेभनाथान् व्रज तनुविषयानिन्द्रियं यज्ञकाले यत्ते शुद्धासि चैतद्विषमविषयिणां ज्ञानयोगे निरोधः / यत्पानं दीक्षितानां भवति सरुधिरं गोऽजिने सोमवल्ल्या मूनः सोमामृतं तद् भगरजसि गतं सर्वगानन्दरूपम् // 201 // ब्रह्मा कायो हरो वाग् हरिरपि च मनः प्राणिनां ते त्रिवेदा(देवा) ॐकारस्ते त्रिवर्णाः शशिरविहुतभुक् ते त्रिनाड्यो गुणाश्च / कौल: काये कुलान्यो विषयगुणगतोऽथर्वणो नादरूपी तन्मध्येऽनाहतं यद्विषयविरहितं निर्गुणं चाक्षरं तत् // 202 //
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280