Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ 10 242 विमलप्रभायां [साधना- इति मूलतन्त्रे / एकाधिपतिना षोडशाक्षराणि षोडसदलेषु / एवं मध्ये प्रभवति यमराजासदोमेरुणाधो तस्माद गर्भारमध्याद भवति दनिरयक्षेच्च तस्मान्निरन्त इति / अष्टारे द्वादशारे नियमः / ततः षोडशारे साध्यनामान्तरान्तरे पत्रे इदं मन्त्रं लिखेत्-ॐ ह्रीः ष्ट्रीः विकृतानन हुँ हुँ फट् इति // 188 // एवं कक्षान्तराले भवति नरपते साध्यनामेष मन्त्री विद्वेषे मृत्युवश्य प्रभवति य म रा क्षेद मे दो स चाद्याः / स्तम्भाकृष्टौ च मोहेऽपि च बलकरणे शान्तिकोच्चाटने च गर्भात् तस्मिन् यकारो व्रजति गुणवशात् पूर्ववद्वाह्यसर्वम् / / 189 // एवं कक्षान्तराले भवति नरपते साध्यनामैष मन्त्री विद्वेषे मृत्युवश्ये इति। इह मध्येऽधिदेवो विद्वेषे य, मृत्यौ म, वश्ये रा प्रभवति / तथा क्षे व मे दो स चाद्या इति / इह स्तम्भने क्षे, आकृष्टौ द, मोहने मे, बलकरणे दो, शान्तौ स, उच्चाटने च्च, ज्वरकरणे ण, स्तोभने रू, जये जा, सन्तापशमने यो, शत्रुनिवारणे नि इति / गर्भात् तस्मिन् यकारो व्रजति गुणवशादिति / इह कर्मणः स्वभावात् यो वर्णो गर्भेऽधिपतिर्भवति, तस्य स्थाने यकारो लिख्यते / पूर्ववद्वाह्ये [306b] सर्वमिति यमान्तकयन्त्रनियमः॥ 189 // इदानीं मञ्जुश्रीयन्त्रमुच्यतेवर्णानामुत्तमाङ्गात् प्रभवति पुरतो मः स्वरालिङ्गितश्च वर्णैर्वर्गान्तवर्णः कुलिशकुलवशात् पञ्चमोऽहं स उक्तः / प्रज्ञा बिन्दुद्वयेन स्वरपरमपुटे स्यादियं मेऽप्युकारो मं मुः हं हुश्च सं सुः कमलवसुदले मञ्जुरेवार्कपत्रे // 190 // वर्णानामित्यादि / इह वर्णानामुत्तमाङ्गादिति वर्णानां शिरसि बिन्दुः / तस्मादुत्तमाङ्गात् प्रभवति पुरतो मः स्वरालिङ्गितश्चेति / अकारस्वरेणालिङ्गितोऽनुस्वारो मकारो भवति / अन्यच्च वर्णः ककाराद्यैरालिङ्गितो वर्गान्त इति ऊ ण म न नो भवन्ति / कुलिशकुलवशात् पञ्चमोऽहं स उक्तः / अतो. बिन्दुरहम् / प्रज्ञा बिन्दुद्वयेन विसर्गेण स्वरपरमपुटेऽकारद्वयमध्ये स्यादियं मेऽप्युकारः। एवं में इत्युपायो मुरिति प्रज्ञा, एवं हं हुः सं सुः मञ्जरित्यष्टाक्षराणि दलेष्वष्टसु। द्वितीये द्वादशारे परिमण्डले एवार्कपत्र इति / / 190 // बाह्ये श्रीवज्रघोषः प्रभवति सयुतो मन्तभद्रोऽपि हूँ फट् साध्योऽस्मिन् कणिकायां अमुकमपि कुरु चोदनं श्रीसमादेः / 1. भो. हँसं
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280