Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 265
________________ विमलप्रभायां पना. . 238 [साधनावति प्राणप्रवाहे त्रिकटुकलुलितां योजयेन्निविषत्वे अगुल्या लम्बिकायां विकसितवदने टङ्गणं योजयेद् वा // 176 / / वज्री जातिः कुमारी त्रिकटुकलवणं लाङ्गली देवदाली ब्राह्मी क्षारोऽश्वगन्धा दिनकरसहिता वन्ध्यकर्कोटकी च / विण्मांसं शुक्ररक्तं सममपि गुलिका कारिताऽक्षोभ्यपिष्टा भूतं भूतज्वरं वा स्थिरमुरगविषं घ्राणदत्ता निहन्ति // 177 // सूर्यादौ सप्तवारे दिननिशिसमये सप्तभागावसाने शून्या मन्दार्कमध्ये प्रवहति कुलिका मृत्युरूपाऽर्धनाडी।.. नागक्रीडां न कुर्यात् त्रिविधमपि विषं भक्षणीयं न तत्र तस्यामेवाहिदष्टो व्रजति यमपुरं भूतलब्धोऽस्त्रभिन्नः // 178 // मध्याह्ने चार्धरात्रे दिननिशिसमये नित्यवारप्रभेदात् शून्याब्धी सन्धिमध्ये प्रवहति कुलिका कालदष्टेकनाडी / प्रत्यूषेऽस्तङ्गतेऽर्के पुनरपि च तथा कालनाडी च मृत्योरेतान्यास्यानि राहोः प्रतिदिनसमये वेदितव्यानि सम्यक् // 179 / / - [304a] आदित्येऽनन्तभोगो दिननिशिसमये चादिभागे दिनस्य पश्चाच्छेषोरगाणामुदय इह भवेत् सप्तवारप्रभेदात् / खर्तुः खच्छिद्रखेषुः खयुगखवसवः खाद्रिखाग्निश्च नाड्यो भोगाः सूर्यादिवारादपि वसुफणिनां भुक्तिभेदाद् विषं स्यात्॥१८०॥ विप्रोऽनन्तो हिमाभः कुलिक इति नृपो वासुकिः शङ्खपालो रक्तो वैश्यो महाब्जो वरकनकनिभस्तक्षकस्तद्वदेव / शूद्रः कर्कोटकोऽब्जः कषणघननिभश्चान्त्यजौ विश्ववर्णों जन्मस्थानं च तेषां जलशिखिधरणीमारुताकाशधातुः // 181 // पादात् कटयन्तपीतो गरुड इति तथा नाभिसीम्नो हिमाभ आकण्ठाद् रक्तवर्णः कषणघननिभो भ्रूलतां यावदेव / तस्माद्वै विश्ववर्णः फणिकुलसहितो मुद्रितः पञ्चतत्वेतिस्तन्मुद्रया वे हरति फणिविषं भूतरोगादिकं च // 182 / /

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280