Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ 10 पटले, 176-185 श्लो.] नानासाधनमहोद्देशः 239 आकारं पक्षिनाथं स्वहृदयकमले भावयेत् सूर्यमूनि नागालङ्कारयुक्तं सकलकुलवशात् पञ्चवर्ण स्फुरन्तम् / पक्षिस्वाहान्तमादि प्रणवमपि ततः पक्षिनाथस्य मन्त्रं जप्त्वा तं कोटिमेकं फणिकुलसहितं साधयेत् पक्षिनाथम् // 183 // तायें सिद्धे फणीन्द्राः फणिपतितनयाः किङ्करत्वं प्रयान्ति भूता यक्षा ग्रहाश्च प्रवरभुवितले डाकिनीमातरश्च / मन्त्राकृष्टिं प्रयान्ति ग्रहगणसकलं जल्पते कालदष्टः तस्मात् सत्त्वार्थहेतोः प्रथममपि नरैः साधनीयः खगेन्द्रः // 184 // तत एकसप्तत्यधिकशतवृत्ताद्' गारुडवृत्तानि सुबोधानि। तेनात्र न लिखि(व्याख्या)तानीति // 171-184 // इदानीं शान्त्यादौ यन्त्राण्युच्यन्तेवेदेष्वष्टौ दलेष्वेव नृपतिषु रदेष्वब्धिषट्सु द्विजेषु गर्भे साध्यः स्वदिक्षु प्रथममपि युगं यादयोऽष्टौ दलेषु / एयाद्याः षो[304b]डशेषु त्रिगुणितदशकाः कादिहक्षा द्विजेषु सन्ध्यापत्रेषु साध्यस्तिथिगुणितयुगेष्वेव लान्ताः समात्राः / / 185 // 15 वेदेष्वित्यादि / इहाभिषेकपटलोक्तन्यग्रोधपत्रादिके श्रीखण्डादिना शीतादिलेखन्या . * यन्त्राणि लेख्यानि शान्त्यादीनि / तत्रायं क्रमः-प्रथमपरिमण्डले चतुर्दलानि, द्वितीयेऽष्टी, तृतीये षोडश, चतुर्थे द्वात्रिंशत्, पञ्चमे चतुःषष्ठिः, षष्ठे द्वात्रिंशदिति / यथा शरीरे उष्णीषे हृदये ललाटे कण्ठे नाभौ गुह्ये षट्चक्राणि, तथा यन्त्रलिखने षट् परिमण्डलानीति / तत्र चतुर्दलमध्ये साध्यनाम। वेदेष्विति चतुर्दलेषु दिक्षु प्रथमम् अ अं 20 युग्ममिति / अ पूर्वे अं उत्तरे / आ पश्चिमे / अः दक्षिणे। इति प्रथमपरिमण्डले / अष्टान्जपत्रेष्विति अष्टदलेषु यादयः। इ ई पूर्वेऽग्नौ। ऋऋ याम्ये नैऋत्ये। उ ऊ उत्तरेशाने / ल ल पश्चिमे वायव्ये। इति द्वितीयपरिमण्डले। एवं नृपतिष्विति तृतीयपरिमण्डले षोडशवलेषु एयाद्या इति पूर्वादिचतुर्दलेषु ए ऐ य या, दक्षिणदलेषु, अर् आर् र रा उत्तरदलेष ओ औ व वा, पश्चिमदलेषु अल आल् ल ला। इति तृतीये परिमण्डले। रदेष्विति द्वात्रिंशद्दलेषु त्रिगुणितदशका इति त्रिंशत् कादयो हक्षा इति, द्विजेष्विति। तत्र पूर्वादिपञ्चदलेषु च छ ज झ ञ, दक्षिणपञ्चदलेषु ट ठ ड ढ ण, उत्तरे प फ ब भ म, पश्चिमे त थ द ध न, एवमीशानमारभ्य पूर्वपत्रे मकाराक्षरमारभ्य पत्रत्रये क ख ग 1. भो. bCu bSi ( चतुर्दश ) इत्यधिकम् /
Loading... Page Navigation 1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280