Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 264
________________ 237 10 पटले, 169-176 श्लो.] नानासाधनमहोद्देशः सर्वलोहमयं वज्र घण्टाऽप्येवं कतिकाऽप्यायसेति चिह्नसाधननियमः। एवं त्रिशूलपादिकानि सर्वास्त्राणि साधयेत् / यद्यदलं साधयेत् स तेन चिह्नन तत्तत् कुलविद्याधरो भवति कालचक्राज्ञयेति / अथ देवतानियमेन सिद्धरसवत् सप्तावर्त मिलति, तदा साधनं विना खेचराः सिद्धयो भवन्ति, इति मूलतन्त्रे नियमः। इति गुलिकादिसाधनविधिः // 170 // जीवे दूते सजीवे गगनदिशि गते मृत्युमाप्नोति दष्टो दूतः प्रश्नोऽसमो यो बहुसुवफलदो मृत्युदोक्तः समो यः / दूतः सर्पादिनाम प्रवदति हि ततो मृत्युमाप्नोति दष्टः पृच्छा प्राणप्रवेशे यदि भवति शुभा निर्गमे साऽशुभा स्यात् // 171 // दूतो वामाग्रपादः कथयति युवती दक्षिणाग्रो नरं च स्वाङ्ग हस्तेन यत्र स्पृशति स मनुजो दष्टमत्र प्रदेशे / प्रोत्फुल्लं नेत्रवक्त्रं कथयति मरणं कर्णमूले च कृष्णः शब्दो हृत्पुण्डरीके यदि भवति मनाक् संग्रहं तत्र कुर्यात् // 172 / आदी रक्षाविधानं भवति सुखकरं दष्टकस्यात्मनश्च पृथ्वीतोयाऽग्निवाता गगनमपि तथाऽङ्गुष्ठ कादौ नियोज्य / लाद्या हान्ताः क्रमेणोरुजठरहृदये वक्त्रमध्ये ललाटे हूँझूह्यह्यादिनागा दशविषमसमा ह्रस्वदीर्घप्रभेदैः // 173 // [303b] वामाङ्ग ह्रस्वबीजं श्रवणगलगतं कक्षकुक्षोरुदेशे सव्याङ्ग दीर्घमेव प्रभवति फणिनां सृष्टिसंहारयोगैः / रक्षां कृत्वा जिनाख्यां गुळसुसमशरेणाहिबीजान्वितेन हुंझंयुक्तेन शीघ्रं सुनिहतहृदयः स्तोभमायाति दष्टः // 174 // पृथ्वीबीजे ललाटे चरणगतखजे स्तम्भमायाति शीघ्र तोये मूनि प्रविष्टे शिखिनि च जठरे निविषत्वं प्रयाति / वायो/जे ललाटे शिखिनि च हृदये संक्रमो वै विषस्य शून्ये मूनि प्रविष्टे चरणगतमही छेदनं वै विषस्य // 175 // श्वेतो विन्दुर्ललाटे त्रिविधमपि विषं निविषं वै करोति रक्तः स्तोभं प्रवेशं कषणघननिभः स्तम्भनं पीतवर्णः / 15 20

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280