Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 263
________________ lo 236 विमलप्रभायां [साधनासिद्धेत्यादि / इह प्रथमं गुलिकासाधनमन्त्रं पूर्वोक्तविधिना साधयित्वा ॐ कालचक्र आज्ञासिद्ध गुलिकां साधय स्वाहा / ततो देवताप्रत्यादेशो भवति गुलिकासाधनाय। 'तत्रायं विधिः-सिद्धा इत्यभिषेकपटलोक्तानां षट्त्रिंशत्खेचरीणां पञ्चषट्दशाष्टाष्टवर्गाः, तेषामेक[ 302b ]वर्गस्य पललं साधयित्वा छायाशुष्कचूर्ण कृत्वा पञ्चामृतसहितम्, ततोऽक्षोभ्येण पोषयित्वा चणकप्रमाणां गुलिकां कृत्वा एवं सिद्धेति / बद्धा त्रिलोहैरितीह कायवाश्चित्तशुद्धया चन्द्रार्कराहुभेदेन तारं तानं कान्तलोहं द्विलोहम् / प्रत्येकबद्धा त्रिलोहैर्बद्धेति / खगपललगुटी खेचरत्वं ददाति वक्ष्यमाणक्रमेण साधितेति / तथा श्वाऽश्वादीनां भूचरजलचराणाम् अङ्गस्य पललैर्गुलिका सिद्धा बद्धा त्रिलोहैरपहरति तनौ क्षुत्पिपासादिरोगानिति गुलिकासाधननियमः। ___ इदानीमञ्जनसाधनमुच्यते-नेत्ररित्यादि / इहाजनसाधनमन्त्रं पूर्ववत् साधयित्वा ततोऽञ्जनं साधयेदिति / ॐ कालचक्राज्ञासिद्धाञ्जनं साधय स्वाहा / ततः खगानां नेत्राणि गृहीत्वा सूक्ष्मचूर्णं कृत्वा बोधिचित्तेन भावयेत् / तदेवाजनं निधानसिद्धये भूप्रभेदं भवति / पित्तश्चेति श्वाऽश्वादीनां पित्तैरञ्जनं कृत्वा स्त्रोपुष्पेण भावयेत् / तदेवानमन्तर्धानं करोति, अन्तर्धानविषये वश्यविषये युवतिमनोहरं भवति साधितं श्रीश्मशाने // 169 // कृष्णाष्टम्यां निशायामथ मनुदिवसे मण्डलं वर्तयित्वा रक्षां कृत्वा समन्ताच्च पललगुलिकां वाञ्जनं तस्य मध्ये / , . कृत्वा संपूजयित्वा सुसुरभिकुसुमैमन्त्रजापं प्रकुर्याद् रश्मीन् मुञ्चन्ति यावनभसि रविरिव ग्राह्यमुद्धृत्य तस्मात् // 170 // तत्रायं विधिः-कृष्णाष्टम्यां निशायाम् अथ मनुदिवस इति कृष्णचतुर्दश्यां रात्री मण्डलं वर्तयित्वा पूर्वोक्तदैत्येन्द्रसाधने यद् रक्षां कृत्वा समन्तात् पूर्वोक्तां च / ततो मण्डलकर्णिकायां गुलिकां वाञ्जनं वा कपालस्थम्, तस्य मध्ये स्थापयेदिति / एवं पललं गुलिकां वाञ्जनं तस्य मध्ये कृत्वा संपूज्य सुसुरभिकुसुमैस्तथा पूर्वोक्तं बल्यादिकं दत्त्वा ततो मन्त्रजापं प्रकुर्यात् / पूर्वोक्तमनेन विधिना कालचक्राज्ञया रश्मोन् मुञ्चन्ति यावद् गुलिकाम् अञ्जनानि वा तावन्मन्त्र[303a] जपेत् / ततो ग्राह्यमुद्धृत्य तस्माद् अवधेः, यदि रश्मीन्न मुञ्चन्ति, तदा पुनमन्त्रसाधनं कुर्यात्, यावद्देवताप्रत्यादेशो भवति / ततो गुलिकासंख्यया नरान् गृहीत्वा गुलिकाविद्याधरो भवति / एवमञ्जनविद्याधरः / खङ्गेन खड्गविद्याधरः। एवं रत्नादिनापि / तत्र मन्त्रः-ॐकालचक्र आज्ञासिद्ध खङ्गं साधय स्वाहा। एवं रत्नादिष्वादौ कालचक्रमिति नियमः। तत्रायसं खङ्गं कृत्वा देवतानियमेन साधयेत्। स्फाटिकं रत्नं कृत्वा रौप्यं कमलं सौवर्णं चक्र 20 T364 1. ग. 'तत्रायं गारुडवृत्ता' नास्ति /

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280