Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 261
________________ 234 विमलप्रभायां [साधना T3635 रोगाद्यं कुरुते काये शत्रुर्व्यञ्जनलक्षणः / एकवर्गेऽपि ये पञ्च काद्या व्यञ्जनर्मिणः // पृथिव्यादिकुलं तेषां ज्ञातव्यं मन्त्रसाधने / ङत्रणमननित्येते मित्रा वाय्वादिजन्मिनाम् / घझढभधधित्येते शत्रवस्तोयजन्मिनाम् / गजडबददित्येते शत्रवो भूमिजन्मिनाम् // खछठफथथित्येते शत्रवो वह्निजन्मिनाम् / कचटपततित्येते शत्रवो वायुजन्मिनाम् / मन्त्रादौ संस्थितो वर्णः स्ववर्गेऽपि परेऽपि वा / साधकानां द्विधा वर्णो जन्मजो नामजो भवेत् // इत्यादि मूलतन्त्रे भगवतो नियमः। पुनस्तत्रैव षड्विधं कर्म प्रथमाक्षरस्योक्तम् / तद्यथा मन्त्रादिव्यञ्जनानां वा स्वराणां साधनाय च / कर्मास्य षड्विधं प्रोक्तं सेवाजापं प्रकुर्वताम् // प्रथमं ताडनं कुर्यादावेशं दाहनं ततः। आप्यायनं ततो मन्त्री पोषणं तोषणं ततः // सविसर्गेण शून्येनाक्रान्तो मन्त्रपूर्वकः / मूविस्थामवाप्नोति अस्त्रराजेन ताडितः // लक्षजापेन चित्तस्य मूच्छिता मन्त्रदेवता / अहङ्कारपरित्यक्ता साधकस्य वशा भवेत् / / एवं सा वायुनाक्रान्ता आवेशं याति योगिनः / दह्यते वह्निनाक्रान्ता तोयेनाप्यायते तथा / पृथ्वी मूनि स्थिता पुष्टिं जप्ता गच्छति देवता। मूनि बिन्दुकलाक्रान्ता तोषिता वरदा भवेत् // एवं षड्लक्षजापेन पूर्वसेवा निगद्यते / आदिबुद्धे महातन्त्रे सुगतेनेष्टसिद्धये // फटकार हूँ तथा वौषट् नमः स्वाहा वषट् तथा। षटकर्माणि यथासंख्यं मन्त्रान्ते कारयेद् व्रती // आदौ वैरोचनं दत्त्वा पुनर्जापं समारभेत् / कोटिजापं ततः कृत्वा होमं कुर्याद्दशांशिकम् // 1. ग. 'ततः"विसर्गेण' नास्ति / 2. ग. च. भो. वशी। 3. ग. 'गच्छति"क्राता' नास्ति / 4. ग. कृत्वा दशां।

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280