Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 262
________________ पटले, 168-169 श्लो.] नानासाधनमहोद्देशः तन्त्रोक्तविधिना सर्व ततः सिद्धयति देवता / वरं ददाति सा सिद्धा मन्त्रिणां प्रार्थितं च यत् // अन्या जातिः क्रिया चान्या कालो मन्त्रः कूलं तथा। अन्यस्थानं दिगाधारं निष्फलं सर्वकर्मसु // पुस्तकात् पठितैमन्त्रैः संप्रदायविवजितैः। साधनं ये प्रकुर्वन्ति ते क्लिश्यन्ति नरा भुवि / किंनाम संप्रदा[302a]यं तत् पुस्तकाद्यदि लभ्यते। तथा . लिखितपाठेन नेयार्थेन प्रकाशितम् // आकाशं भोक्तुमिच्छन्ति मन्त्रसद्भावजिताः। पुस्तकात् पठितैर्मन्त्रैर्देवादीनां च साधकाः / / स्वचित्तदृढवीर्येण मन्त्रजापेन वा भवेत् / ईप्सिता लौकिकी सिद्धिः साधकानां परार्थिनाम् // मन्त्रजापैस्तथा होमैश्चैत्यपूजाविधिक्रमैः। . . . 'क्रियाहीना न सिद्धयन्ति यथाभूतमिदं वचः॥ शास्तृणां बोधिसत्त्वानां देवानां साधनं प्रति / तस्मात् सर्वप्रयत्नेन तदेव गृह्यते बुधैः॥ इत्येवं चित्ताक्षरं साधयेत् पूर्वसेवां कृत्वा / अत्र मन्त्रताडनादिकम् / तद्यथाप्रथमं तावत् तारामन्त्रं प्रदर्श्यते / तेन विधिनाऽपरेऽपि ज्ञेयाः। ॐ हताः फडिति ताडनमन्त्रस्य लक्षजापः, ओं यताः हूँ इत्यावेशनम्, रताः वौषडिति दहनम्, ॐ व्ताः नम आप्यायनम्, ॐ ल्ताः स्वाहा पोषणम्, ॐ तां वषट् तोषणम्, षट्लक्षजापः / षडयुतं होमयित्वा ततः-ॐ तारे स्वाहेति वाग्वजस्य जापो दशलक्षाणि / दशांशहोमः / ततः ॐ तारे तत्तारे तरे स्वाहा / इति कायवजापः / कोटिपर्यन्तं दशलक्षं होमयेदेवं मन्त्रदेवता वरदा भवति / नान्यथा योगिनामिति / चित्तवाक्कायभेदैर्भाव्यो याज्यो जाप्यश्च प्रत्येको मन्त्रः षटलक्षं दशलक्षं शतलक्षमिति नियमो मूलतन्त्र भगवतः // 168 / / इदानीं गुलिका साधनमुच्यतेसिद्धा बद्धा त्रिलोहैः खगपललगुटी खेचरत्वं ददाति श्वाऽश्वादीनां प्रदीपैरपहरति तनौ क्षुत्पिपासादिरोगान् / नेत्रः पित्तैश्च तेषां भवति वरनृणामञ्जनं भूप्रभेदं अन्तर्धाने च वश्ये युवतिमनहरं साधितं श्रीश्मशाने // 169 // 20 25. 30 1. भो. Man Nag ( उपदेश ) / 2. भो. brTse Ba ( कृपा ) /

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280