Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ 5 232 विमलप्रभायां [साधनालोचने वसुदे स्वाहा-इत्यादीनि नामस्याधिकाक्षराणि चित्तवागक्षरसहितानि कायवज्राणि, तस्मात् कायवज्रात् परतो यो मालामन्त्रः स प्रत्यङ्गमन्त्रमित्युच्यते / यथा हस्तपादादयः कायावयवास्तथा नामावयवा मन्त्रनामस्येति / स च बहुविधो भवति / पाठसिद्धः 'कदाचित् / इह यथाभिषेकपटले प्रत्यङ्गमन्त्रस्तद्यथा-ॐ आः हो हं क्षः ह क्ष् म ल व र य कालचक्र दुर्दान्तदमक 1 जातिजरामरणान्तक 2 त्रैलोक्यविजय 3 महावीरेश्वर 4 वज़काय 5 वज्रगात्र 6 वज्रनेत्र 7 इत्यादि प्रत्यङ्गमन्त्रः कदाचित् पाठसिद्धः पूर्वजन्मसाधित इह जन्मनि पुनः साधितः सिद्धो भवति / ततः कर्म करोति / इह चित्तादिना मन्त्रो भाव्यो नामाद्यः, याज्यो नाममन्त्रः, जाप्यो नामाधिकः। स्वजिनकुलवशादिति / अक्षसूत्रादिभेदैः। चित्तभेदेन भाव्यः, वाग्भेदेन याज्यः, कायभेदेन जाप्य इति नियमः। अत्र नामाद्यम् ॐकारं विना देवताकारं ध्यायात् / सर्वनाम्नि ॐकारमादौ यजेत् कायवज्रेण। एवं प्रत्यङ्गम आदिकायवन मन्त्रे चित्तवज्र हूँ फडिति दत्त्वा जपेत् / एवं सर्वसत्त्वानां कायवाक्चित्तभेदः // 167 // 20 इदानीं सामान्यमन्त्रसाधने 'जापसंख्योच्यतेप्रत्येक मन्त्रजातेः प्रभवति नियतः कोटिजापः प्रसिद्धो होमस्तस्माद् दशांशः प्रकृतिगुणवशात् सिद्धयते यावदेव / पश्चाच्छान्त्यादिकेषु प्रभवति फलदो नान्यथा सिद्धिमेति सध्यानपिहोमवंतनियमयुतैर्मन्त्रयोनिश्च साध्या // 168 // प्रत्येकमित्यादि / इह प्रत्येकं मन्त्रजातेः कायवज्रस्य कोटिजापो भवति प्रसिद्धः। होमस्तस्मात् कोटिजापाद् दशांश इति दशलक्षहोमो भवति। वाग्वजस्य प्रकृतिगुणवशादित्यभिषेकपटलोक्तद्रव्यैः शान्त्यादिगुणवशात् कु[301a]ण्डासनादिविधिना सिद्धचते यावदेव / पश्चाच्छान्त्यादिकेषु प्रभवति फलदो नान्यथा सिद्धिमेति / एवमुक्तैः सध्यानपिहोमैतनियमयुतैर्मन्त्रयोनिश्च साध्या इति।। इह यासां देवतानां यो यः समयः, सा देवता तेन समयेन तेन 'व्रतनियमेन साध्या भवति, अन्यथा न सिद्धयति / तथा नामाक्षरं साध्यस्य यदि साधकनामाद्यक्षरस्य शत्रर्भवति, तदा साधकस्य मरणं भवति / अथोदास्यं भवति. तदा क्लेशो भवति / अथ मित्रं भवति, तदा सिद्धो भवति देवता। स्वरेण शत्रुणा 'मरणम् / व्यञ्जनशत्रुणा रोग इति। अपरे शत्रवः सर्वे वाय्वक्षरास्तोयाक्षराणाम् स्वराणां 1. च. क्वचित् / 2. च. भो. होः। 3. भो. 'वज्रभैरव' इत्यधिकः। 4. भो. 'मन्त्रे' नास्ति / 5. च. जप। ६.च. व्रतेन तेन नियमेन / .7. ग. 'अथो भवति' नास्ति / 8. ग. 'मरणम् ""शत्रुणा' नास्ति।
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280