Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ 229 पटले, 157-161 श्लो.] नानासाधनमहोद्देशः इदानीं कर्मसाधनायादिनियम उच्यतेश्रीमन्त्रं बुद्धबिम्ब प्रथममपि विभोर्योगिना साधनीयं पश्चात् सिद्धयन्ति कर्माण्यपरिमितगुणान्यभेदैः स्थितानि / मन्त्रे बिम्बे त्वसिद्धे त्रिभुवननिलये सिद्धयते नैव किञ्चित् तस्माद् राजन् स्वचित्ते व्यपगत कलुषे साधयेन्मन्त्रबिम्बम् // 159 // श्रीमन्त्रमित्यादि / इह योगिनां कर्मसिद्धये प्रथम साधनीयं श्रीमन्त्रमिति / ॐ आः हूँ इति साधनीयं वक्ष्यमाणजापहोमविधिनाऽपरमन्त्रसिद्धये / एवं बुद्धबिम्बमिति शून्यताबिम्ब प्रत्यक्षं करणीयमपरध्यानसिद्धये / एवं श्रीमन्त्रं बुद्धबिम्ब प्रथममपि विभोयोगिना साधनीयं पश्चात सिद्धयन्ति कर्माणि, अपरिमितगुणान्यभेदैरिति द्वादशभेदैः स्थितानि / मन्त्रे बिम्बे त्वसिद्धे त्रिभुवननिलये सिद्धचते नैव किञ्चित, तस्माद् राजन् स्वचित्ते व्यपगतकलुषे साधयेन्मन्त्रबिम्बमादौ विभोरिति नियमः // 159 // इदानी खगादिसिद्धयर्थमसुरेन्द्रसाधनमुच्यतेशूरः संग्रामभूमौ पतित इति तथा लम्बितस्तस्करो वा अष्टम्यां भूतरात्री नृप चितिभुवने स्नापयेदष्टकुम्भैः / गन्धैधूपैः प्रदीपैर्बहुविधचरुकै रक्तपुष्पैः प्रपूज्य वज्रन्यासं प्रकृत्या शिरसि च हृदये मूनि नाभौ च कण्ठे // 160 // - शूर इत्यादिना। इह संग्रामभूमौ शूरो राजपुत्र एकनाराचप्रहारेण पतितोऽन्यो वा योधः, तथा वृक्ष लमिबतस्तस्करो वा शूरः। अष्टम्यां वा भूतरात्रौ चतुर्दश्यां वा कृष्णपक्षे / नृपेत्यामन्त्रणम् / चितिभुवने श्मशाने स्नापयेत् तं शवम् / अष्टकुम्भवश्यकर्मण्युक्तैर्जयविजयाभ्यां च / ततो गन्धैधूपैः प्रदीपैर्बहुविधचरुकै रक्तपुष्पैः प्रपूज्य रक्त- वस्त्रेण परिधानं कृत्वा / वज्रन्यासं प्रकृत्या शिरसि च हृदये मूनि नाभौ च कण्ठे [2994 ] इति / ललाटे ॐ, हृदये हैं, उष्णीषे हं, नाभौ हो, कण्ठे आः, गुह्ये क्षः। एवं पूर्वोक्तं हृदयं शिरः शिखा कवचं नेत्रमस्त्रं चेति षडङ्गन्यासं कृत्वा शवस्यात्मशरीरस्यापि रक्षां कृत्वा देवतायोगेन // 160 // कृत्वा कुण्डे त्रिकोणे यदरुणरजसा गर्भपद्मं सचिह्न पत्रे चिह्न जिनानां दिशि विदिशि तथा देवतीनां स्वचिह्नम् / 20 1. क. ख. छ. वृक्षे वाऽवलम्बितः / 2. क. ख. च.छ. नाभ्यादिके च। 3. छ.। 4. च. भो. होः।
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280