Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ पटले, 149-157 श्लो.] नानासाधनमहोद्देशः 227 प्रत्यालीढा विवस्त्रा ह्य परि हरिरिपोः प्रेरिता साध्यवेश्म साध्यं केशेषु शीघ्रं धृतमपि च तया मण्डले वस्त्रहीनम् // 154 // आनीतं श्रीश्मशाने जिनपतिवचसा गृध्रकाकैः शृगालैः सर्वाङ्गात् पीतरक्तं पललमपि तथा भक्षितं सर्वधातुम् / साध्यस्यैवं समस्तं प्रवरभुवितले मारणे भावनीयं ध्यानेनानेन शक्रो व्रजति यमपुरं किं पुनर्गर्भजातः // 155 / / पुनात्वा सूर्येन्दुगर्भ तडिदनलनिभां कतिका स्वभावाम् इत्यादि मारणे वृत्तद्वयं सुबोधम् / एवं वश्यादिनववृत्तानि सुबोधानि तेन न लिखि(व्याख्या)तानीति // 154-155 // 15 इदानीं शान्तावपरं ध्यानमुच्यतेशान्ती पुष्टौ च शुक्लं भवति कुलवशाद् ध्यानमप्यम्बुबीजाद् वश्याकृष्टौ च रक्तं त्वपि तनुदहनं वह्निबीजात्मकं च / विद्वेषोच्चाटने च प्रलयघन निभं वायुबीजस्वभावं संस्तम्भे. कीलनाद्ये वरकनकनिभं भूमिबीजात्मकं च // 156 / / [ 297 b] . शान्तावित्यादि / इह प्रथमं तावदेकवीरमात्मानं कालचक्रं भावयेच्चतुर्विशतिभुजं शान्त्यादिवश्यादिकर्मणि, मारणादिस्तम्भनादिकर्मणि षड्विंशतिभुजम् / ततो झटित्याकारेण शान्तौ पुष्टाविति / इह कालचक्रस्य हृदये तोयमण्डले तोयबीजेनोत्पन्ना देवता तोयात्मिका शुक्ला। कुलवशादुकारकुलवशात् / तस्या ध्यानं शुक्लध्यानमप्यम्बुबीजात् शान्तौ पुष्टौ च भवति। तथा वश्याकृष्टौ च रक्तम् / अपि तनुवहनं वह्निबीजात्मकं कण्ठे वह्निमण्डले ऋकारकुलवशादिति। विद्वेषोच्चाटने च कृष्णं वायुषीजस्वभावं ललाटे वायुमण्डले प्राणस्य इकारकुलवशात् / स्तम्भने कोलनाचे पीतं भूमिबोजात्मकं नाभौ पृथिवीमण्डले लकारकुलवशादिति // 156 // 20 नीलाभं शून्यबीजाद् भवति हि हरितं मारणे जीवने च पृथ्वीकृत्स्नं समन्ताज्जलनिधिगमने वायुकृत्स्नं च वृष्टेः / नाशार्थ वह्निकृत्स्नं त्वपि महिवलयं द्रावणाथं च वह्नशार्थं तोयकृत्स्नं भवति खगमने शून्यकृत्स्नं त्वदृश्ये // 157 // 25
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280