Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
________________ T361 228 विमलप्रभायां साधना 'नोसाभं शून्यबीजाद गुह्ये ज्ञानमण्डले अंकारकुलवशान्मारणे / उष्णीषे शून्यमण्डले हरितमकारकुलवशाज्जीवने च / एवं षट्स्थानेषु षट्कुलवशात् प्राण संयमात् कर्मसिद्धिर्भगवतोक्ता। इदानीं पृथिव्यादिकृत्स्नभावनोच्यते पृथ्वीत्यादि। इह यदा योगिनां देवता सिद्धा भवति, तदा नाभौ पृथिवीमण्डलात् पृथ्वीकृत्स्नं समुद्रोपरि सेतुबन्धवन्निश्चार्य भावयेत् / जलनिधिगमने समुद्रोपरि गच्छति, यथा स्थले तथा जले पृथ्वीकृत्स्नध्यानेनेति / एवं वायुकृत्स्नं चातिवृष्टविनाशार्थमिति / ललाटे वायुमण्डलान्निश्चार्य वायुकृत्स्नं मेघोपरि भावयेत्तेन मेघवृष्टि विनाशयति / अथ पञ्चधात्वात्मकं कूटागार[298a]मात्मन उपरि भावयेत् / तेन ध्यानेन योगी जलेन न स्पृश्यते कूटसोमापर्यन्तम् / न मेघवृष्टिः प्रविशति वर्षमाणापीति मूलतन्त्रे प्रोक्तम् / एवं वायुकृत्स्नं निश्चार्याग्निमूनि वृष्टेविनाशार्थमिति वह्निकृत्स्नमिति / इह कण्ठे : वह्निमण्डला दग्निबीजपरिणता ज्वाला पृथिव्युपरि भावयेत् / निश्चार्य ताभिर्वाला- . भिर्महिवलयं द्रवति दूतकनकवत् / एवं भमिद्रावणार्थ वह्निकृत्स्नं भावनीयम् / एवं बढे शार्थ तोयकृत्स्नमिति / इह देवताहृदये तोयमण्डलात् तोयबीजजनितं तोयकृत्स्नं निश्चार्याग्निमूनि भावयेत् / तेनाग्निः शीतलो भवति, न दहनक्षम इति / भवति खगमने शून्यकृत्स्नमिति / उष्णीषे आकाशमण्डले आकाशकृत्स्नं द्रव्यरहितं भावयेत्, तेनाकाशगमनं भवतीति / तथा चौराद्युपद्रवेऽदृश्यो भवति तेनैव ध्यानेनेति नियमः // 157 // इदानी तिर्यगुपद्रवशमनाय ध्यानमुच्यतेध्यानं पञ्चाननं वै भवति गजपतेर्भङ्ग एवाग्निबीजात् ताक्ष्य नागेन्द्र भने भवति हि धवलं तोयबीजात्मकं च / अष्टाघ्रि खड्गिसिंहे प्रलयघननिभं वायुबीजात्मकं स्यात् खड्गाख्यं वाजिशत्रोरवनिकुलवशात् क्रोधजं दैत्यभङ्गे // 158 // ध्यानमित्यादि। इह यदा गजपतेभयं भवति, तदा कण्ठे अग्निबोजादिति रेफादुत्पन्नं पञ्चाननं भावयेत् / तत् पञ्चाननध्यानं भवति गजपतेभंङ्गविषये। एवं ताक्ष्य नागेन्द्रभने हृदये तोयमण्डले तोयबीजात्मकं तद्वद् धवलं भवति / अष्टाधिमिति अष्टपदम्। खनिभये सिंहभये "कृत्स्नं ललाटे वायुमण्डले वायुबीजात्मकं चेति / खड्डाख्यं वाजिशत्रोरिति महिषभये। अवनिकुलवशादिति पीतं नाभौ पृथिवीमण्डले लकारबीजादिति / क्रोधजं दैत्यभङ्गे उष्णीषे शून्यमण्डले श्यामे / नीले गुह्ये ज्ञानमण्डले वा हूँकारबीजात्मकं क्षंकारबीजात्मकं दंत्यादीनां भङ्गविषये क्रोधजं सुखकरं योगिनां भवतीति ध्याननियमस्तिर्यग्भङ्गाय // 158 // [ 298b] 1. च. शून्यं शून्यबीजाद् / 2. च. संयमनात् / 3. क.ख.च.छ.भो. 'निश्चार्याग्निमूनि' नास्ति / 4. ग. 'वृष्टेविनाशार्थमिति' नास्ति / 5. ग. च. दह्निबीज / 6. गः तात् / 7. ग. च. भो. कृष्णं / 8. च. क्षः, छ. /
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280