Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 232
________________ 205 पटले, 109-110 श्लो.] उत्पन्नक्रमसाधनमहोद्देशः हँकारेण स्वकं वज्रं पञ्चशूकं विभावयेत् / तन्मध्येऽष्टदलं पद्मं आःकारेण प्रकल्पयेत् // एवं सकमलं कुलिशं कृत्वा पद्मे निवेशयेत् / हूँ फट् कुर्वंस्ततो योगी गवं वज्रधरं वहन् / भगे लिङ्गं प्रतिष्ठाप्य बोधिचित्तं न चोत्सृजेत् / भावयेद् बुद्धबिम्बं तु धातुकमशेषतः / / चण्डाली ज्वलिता नाभौ दहति पञ्च तथागतान् / लोचना चक्षुरादींश्च दग्धे हं स्रवते शशी / / स्रवते बिन्दुरूपेण अमृतं शुक्ररूपिणम् / * बिन्दुयोग इति ख्यातः षोडशाधर्धिबिन्दुधृक् // अकल: कलनातीतश्चतुर्थध्यानकोटिधृक् / सूक्ष्मयोग इति ख्यातो 'निःस्पन्दादिगतोलतः॥ शङ्खिनीयं महामुद्रा चण्डालो सा प्रगीयते। नाभ्यूवं डोम्बिनी या तु अवधूती नरनासिका // पञ्चरश्मिमयः प्राणः पञ्चमण्डलवाहकः। नासाग्रे सर्षपः ख्यातः प्राणायामः स च स्मृतः // त्रि[284a]भवस्य परिज्ञानं त्रैधातुकमशेषतः / प्राणे निबोधिते तच्च सर्षपे संचराचरम् // प्रत्याहारे महामुद्रा आकाशे शून्यलक्षणम् / नासिका तत्प्रदेशे च यत्रैवारोपितं मनः॥ निमित्तान्ते तु या रेखा तस्यां बिम्बं चराचरम् / भावयेदखिलं तस्यां योगी ध्यानादिकं च तत् // इति मूलतन्त्रे नियमः। अस्मिन् पुनः संक्षेपत उक्तः। तेन मूलतन्त्रानुसारेणावगन्तव्य इति भगवतो मञ्जश्रियो नियमः। चण्डाली नाभिचक्रे नवहतभुजग इति / इह नाभौ नाडीचक्रं नवहतभुजगं द्वासप्ततिनाडिकात्मकं द्वादशराशिनाड्यात्मकम्, षष्टिमण्डलनाड्यात्मकम् / तस्मिन् नवहतभुजगे चचिकायाधिदैवे होकारज्ञानगर्भे ज्ञानवजाधिष्ठिते तडिदनलनिभा चण्डाली ज्ञानतेजःप्रबुद्धेति / संवत्या ज्ञानं कामस्तस्य तेजः कामाग्निस्तेन कामाग्निना प्रबुद्धा सती नाभी निर्माणचक्रे वहति वैरोचनादीन् पञ्चमण्डलगतान् वामे, दक्षिणे लोचना चक्षुरादीन् दहति, चक्षुरादीन्द्रियाणि रूपादीन् विषयानपि, मनसो धर्मधातुग्रहणात् सर्वेषामप्रवृत्तिरिति दहनम्। 20 25 30 १.भो. rGyu mThun (निष्यन्द)। 2. क. ख. नात्यध्वं / 3. च. त्तान्त्ये / 4. च. भो. विश्वं / 5. च. होः। 6. ग. च. भो. दमल / 7.. क. ख. ग. ङ. वाम /

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280