Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
विधिप्रपा। ६१००. अधिवासना रात्रौ दिवा प्रतिष्ठा प्रायशः कार्या । इतरथापि किश्चित्कालं स्थित्वा विमिन्ने प्रतिष्ठालमे प्रतिष्ठा विधेया । तत्र प्रथमं शान्तिदेवतामंत्रेणाभिमंत्र्य शान्तिबलिः । शान्तिदेवतामंत्रश्चायम् -ॐ नमो भगवते अर्हते शान्तिनाथखामिने सकलातिशेषमहासम्यत्समन्विताय त्रैलोक्यपूजिताय नमो नमः शान्तिदेवाय सर्वामरसमूहखामिसंपूजिताय भुवनजनपालनोद्यताय सर्वदुरितविनाशनाय सर्वाशिवप्रशमनाय सर्वदुष्टप्रहभूत: पिशाचमारिशाकिनीप्रमथनाय नमो भगवति जये विजये अजिते अपराजिते जयन्ति जयावहे सर्वसंघस्य भद्रकल्याणमंगलप्रदे साधूनां श्रीशान्तितुष्टिपुष्टिदे च खस्तिदे च भव्यानां सिद्धिवृद्धिनिर्वृत्तिनिर्वाणजनने सत्त्वानामभयप्रदानरते भक्तानां शुभावहे सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते जिनशासनरतानां श्रीसम्प
कीर्चियशोवर्द्धनि रोगजलज्वलनविषविषधरदुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरइतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष शिवं कुरु कुरु शान्ति कुरु कुरु तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु ॐ नमो नमः हूं हः यः क्षः ही फुट "खाहा' । ततश्चैत्यवन्दनम् । प्रतिष्ठादेवतायाः कायोत्सर्गः, चतुर्विंशतिस्तवचिन्तनम् । ततः स्तुतिदानम् -
यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति ।
श्रीजिनबिम्ब सा विशतु देवता सुप्रतिष्ठमिदम् ॥१॥ शासनदेवी-क्षेत्रदेवी--समस्तवैयावृत्त्य० धूपमुत्क्षिप्याच्छादनमपनयेत् लमसमये। ततो घृतभाजनमग्रे कृत्वा सौवीरकं घृतमधुशर्करागजमदकर्पूरकस्तूरिकाभृतरूपवर्तिकायां सुवर्णशलाकया 'अहं अई' इति वा । बीजेन नेत्रोन्मीलनं वर्णन्यासपूर्वकम् । यथा-हां ललाटे, श्री नयनयोः, ही हृदये, % सर्वसन्धिषु, श्लौं प्राकारः । कुम्भकेन न्यासः। शिरस्यभिमंत्रितवासदानम्, दक्षिणकर्णे श्रीखण्डादिचर्चिते आचार्यमंत्रन्यासः। प्रतिष्ठामंत्रेण त्रि ३ पञ्च ५ सप्तवारान् सर्वाङ्गं प्रतिमा स्पृशेत् चक्रमुद्रया । सामान्ययतिं प्रति मंत्रो यथा'वीरे वीरे जयवीरे सेणवीरे महावीरे जये विजये जयन्ते अपराजिए ॐ हीं खाहा' अयं प्रतिष्ठामंत्रः । ततो
दधिभाण्डदर्शनम् , आदर्शकदर्शनम्, शंखदर्शनम् , दृष्टेश्चक्षुरक्षणाय सौभाग्याय स्थैर्याय च समुद्रा मंत्रा न्यस० नीयाः । ॐ अवतर अवतर सोमे सोमे कुरु कुरु वग्गु वग्गु' इत्यादिकाः। ततः सौभाग्यमुद्रादर्शनं १, सुरमिमुद्रा २, प्रवचनमुद्रा ३, कृतांजलिः ४, गुरुडा पर्यन्ते । पुनरप्यवमिननं स्त्रीभिः । इह च स्थिरप्रतिमाऽधो घृतवर्तिका श्रीखंडं तंदुलयुतपञ्चधातुकं कुम्भकारचक्रमृत्तिकासहितं पूर्वमेव बिम्बनिवेशसमये न्यसेत् । ततः-ॐ स्थावरे तिष्ठ तिष्ठ खाहा' - इति स्थिरीकरणमंत्रो ऽवमिननोवं न्यसनीयः । चलप्रतिष्ठायां तु नैषः । नवरं चलप्रतिमाऽधः सशिरस्कदर्भो वालिका' च प्रथमत एव वामांगे 'न्यसनीया । तत्र च-ॐ ॐ जये श्रीं ह्रीं सुभद्रे नमः'-इति मंत्रश्च प्रतिष्ठानन्तरं न्यस्यः। ततः पद्ममुद्रया रत्नासनस्थापन कार्यमिदं वदता,
यथा- इदं रत्नमयमासनमलंकुर्वन्तु, इहोपविष्टा भन्यानवलोकयन्तु, हृष्टदृष्ट्या जिनाः खाहा । ॐ हये गंधान्यः प्रतीच्छतु खाहा । ॐ हये पुष्पाणि गृह्णन्तु खाहा । ॐ ह्रये धूपं भजंतु स्वाहा । ॐ हये भूतबलिं जुषन्तु स्वाहा । ॐ हृये सकलसत्त्वालोककर अवलोकय भगवन् अवलोकय खाहा- इति पठित्वा पुष्पांजलित्रयं क्षिपेत् । ततो वस्त्रालंकारादिभिः समस्तपूजा, माइसाडी-कंकणिकारोपश्च, पुष्पारोपणं बल्या"दिश्च । मोरिंडा-सुहालीप्रभृतिका दीयते । ततो लवणावतारणम् , आरत्रिकावतारणम् , मंगलप्रदीपः कार्यः । अत्रापि भूतबलिप्रक्षेप इत्येके । भूतबल्यभिमंत्रणमंत्रस्त्वयम् -'ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए सबसाहूणं, ॐ नमो आगासगामीणं, ॐ नमो चारणाइलद्धीणं, जे इमे नरकिंनरकिंपुरिसमहोरगगुरुलसिद्धगंधवजक्खरक्खसप्रिमायभूयपेयडाइणिपभियओ
1 वाटली। 2 प्रोक्षणं । 3 वेल। 4 न्यस्यैव बिम्बं निवेश्यम् । 5 'क्वचिदिदं कूटं सानुस्खारं द्विमात्रं (व्य) दृश्यते।' इति B टिप्पणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186