Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 18
________________ वादार्थसंग्रहः [४ भागः विशिष्टार्थकत्वं विना, अनुपपत्तेरिति जिज्ञासानिवर्तकत्वानुपपत्तरित्यर्थः । यद्पविशिष्टे जिज्ञासितस्य तत्सम्बन्धः प्रभवाक्येन बोध्यते परिशिष्टे विशिष्य तत्सम्बन्धज्ञानेनैव जिज्ञासानिवृत्तरिति भावः । तथाच आख्यातं प्रत्तित्वावच्छिन्नशक्यताकं प्रवृत्तित्वविशिष्टे जिज्ञासाया निवर्त्तकस्य ज्ञानस्य जनकत्वात् इत्यनुमानप्रकारोऽवसेयः । तत्रापि लक्षणा-शक्तिभ्रमाजन्यत्वेन ज्ञानं विशेषणीयं, तेन लक्षणया प्रवृत्तिबोधके शब्दे न व्यभिचारः । न च लक्षणाशक्तिभ्रमावजन्यप्रदृत्तित्वविशिष्टविषयकज्ञानजनकत्वादित्येवास्त्विति वाच्यं, हेत्वन्तरसम्भवस्य हेत्वन्तरादूषकत्वादिति निगर्वः । ननु पूर्वहेतौ निरुक्तबाधकाभाववत्व विशेषणम् अत्र तु लक्षणाशक्तिभ्रमाधजन्यत्वं ज्ञानविशेषणमप्रसिद्ध, प्रत्तित्वस्याख्यातशक्यतावच्छे. दकत्वे रथो गच्छतीत्यादिवाक्यस्यायोग्यत्वापत्त्या अनुकूलव्यापारादावाख्यातस्य शक्तः रथादेरचेतनतया चैतन्याबनवच्छेदक्तया च तत्र प्रटत्तिमत्त्वासंभवात् । अपचत्यपि चैत्रादौ कालिकादियत्किञ्चित्सम्बन्धेन प्रवृत्तिमत्त्वमादाय चैत्रः पचतीत्यादिन्यवहारवारणाय समवायावच्छेदकतान्यतरसम्बन्धेनैव कर्तृपदार्थे आख्यातार्थयत्नान्वयस्य साकासत्वमित्यभ्युपेयत्वात् , आत्मा पचतीत्यादिप्रयोगानभ्युपगमे समवायोऽपि नान्तर्भावनीयः, परमेश्वरो वेदं वक्तीत्यादौ पर. मेश्वरपदस्य तच्छरीरपरत्व एव योग्यत्वं न तु परमात्मपरत्व इति चाकामेन स्वीकरणीयमित्याशङ्कां प्राचीनमतमाश्रित्य परिहरति-अचेतनइत्यादिना । 'अचेतने' अचेतनविशेष्यकाख्यातार्थप्रकारकबुद्धिजनके, 'अचेतनत्वं' समवायावच्छेदकत्वान्यतरसम्बन्धन चैतन्यवतो भिन्नत्वं, तेन चैत्रः पचतीत्यादेर्न सङ्ग्रहः, तण्डुलः पच्यत इत्यादेर्व्यवच्छेदार्थमुक्तं रथो गच्छतीत्यादाविति, तेन कर्तरहिताख्यात इति लभ्यते, 'चः' त्वर्थः। अनुकूलव्यापारे लक्षणेति अनुकूलव्यापारे निरूढलक्षणेत्यर्थः । यादृशलक्षणया प्रयोगे कथायां वादिनो न निग्रहः सैव लक्षणा निरूढा । अनुकूलत्वस्य धात्वाख्यातार्थव्यापारयोः संसर्गतया स्फोरणायानुकूलत्वेनोपादानं, न तु लक्ष्यतावच्छेदके तदन्तर्भावः । व्यापारत्वञ्च कार्यत्वं तच्च प्रतियोगितासम्बन्धेन ध्वंसवत्त्वं, प्रागभाववत्वं वा व्यापारत्वम् ॥ १ ॥ . रामचन्द्रतर्कवागीशकृतव्याख्या। आख्यातस्यति । आख्यातत्वं शक्ततावच्छेदकं यत्नत्वञ्च शक्यतावच्छेदकमित्यर्थः, तत्राख्यातत्वं लत्वं वर्णत्वव्याप्यजातिविशेषः, त्यादयो लकारादशाः, तथाचाप्राप्तस्य पचतीत्यादावादेगेन त्यादिना आदेशिनो लकारस्य स्मरणादेव यत्नस्वविशिष्टस्योपस्थिति-शाब्दबोधौ विशेषदर्शिनः । भ्रान्तस्य च त्यादावेव यत्नत्वविशिष्टशक्तिभ्रमादन्वयबोधः। न च त्यादेः ककारादेशत्वमादाय विनिगमकाभावः, सर्वज्ञेन पाणिनिमुनिना त्यादीनां लकारादेशत्ववोधनं न तु ककारादीनामित्यस्यैव विनिगमकत्वादिति संप्रदायविदः । आख्यातपदात् त्यादयो बोडव्या इत्याकारकवैयाकरणपरिभाषाविषयत्वसम्बन्धेनाख्यातपदवत्त्वमेवा

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 238