________________
वादार्थसंग्रहः
[४ भागः
विशिष्टार्थकत्वं विना, अनुपपत्तेरिति जिज्ञासानिवर्तकत्वानुपपत्तरित्यर्थः । यद्पविशिष्टे जिज्ञासितस्य तत्सम्बन्धः प्रभवाक्येन बोध्यते परिशिष्टे विशिष्य तत्सम्बन्धज्ञानेनैव जिज्ञासानिवृत्तरिति भावः । तथाच आख्यातं प्रत्तित्वावच्छिन्नशक्यताकं प्रवृत्तित्वविशिष्टे जिज्ञासाया निवर्त्तकस्य ज्ञानस्य जनकत्वात् इत्यनुमानप्रकारोऽवसेयः । तत्रापि लक्षणा-शक्तिभ्रमाजन्यत्वेन ज्ञानं विशेषणीयं, तेन लक्षणया प्रवृत्तिबोधके शब्दे न व्यभिचारः । न च लक्षणाशक्तिभ्रमावजन्यप्रदृत्तित्वविशिष्टविषयकज्ञानजनकत्वादित्येवास्त्विति वाच्यं, हेत्वन्तरसम्भवस्य हेत्वन्तरादूषकत्वादिति निगर्वः । ननु पूर्वहेतौ निरुक्तबाधकाभाववत्व विशेषणम् अत्र तु लक्षणाशक्तिभ्रमाधजन्यत्वं ज्ञानविशेषणमप्रसिद्ध, प्रत्तित्वस्याख्यातशक्यतावच्छे. दकत्वे रथो गच्छतीत्यादिवाक्यस्यायोग्यत्वापत्त्या अनुकूलव्यापारादावाख्यातस्य शक्तः रथादेरचेतनतया चैतन्याबनवच्छेदक्तया च तत्र प्रटत्तिमत्त्वासंभवात् । अपचत्यपि चैत्रादौ कालिकादियत्किञ्चित्सम्बन्धेन प्रवृत्तिमत्त्वमादाय चैत्रः पचतीत्यादिन्यवहारवारणाय समवायावच्छेदकतान्यतरसम्बन्धेनैव कर्तृपदार्थे आख्यातार्थयत्नान्वयस्य साकासत्वमित्यभ्युपेयत्वात् , आत्मा पचतीत्यादिप्रयोगानभ्युपगमे समवायोऽपि नान्तर्भावनीयः, परमेश्वरो वेदं वक्तीत्यादौ पर. मेश्वरपदस्य तच्छरीरपरत्व एव योग्यत्वं न तु परमात्मपरत्व इति चाकामेन स्वीकरणीयमित्याशङ्कां प्राचीनमतमाश्रित्य परिहरति-अचेतनइत्यादिना । 'अचेतने' अचेतनविशेष्यकाख्यातार्थप्रकारकबुद्धिजनके, 'अचेतनत्वं' समवायावच्छेदकत्वान्यतरसम्बन्धन चैतन्यवतो भिन्नत्वं, तेन चैत्रः पचतीत्यादेर्न सङ्ग्रहः, तण्डुलः पच्यत इत्यादेर्व्यवच्छेदार्थमुक्तं रथो गच्छतीत्यादाविति, तेन कर्तरहिताख्यात इति लभ्यते, 'चः' त्वर्थः। अनुकूलव्यापारे लक्षणेति अनुकूलव्यापारे निरूढलक्षणेत्यर्थः । यादृशलक्षणया प्रयोगे कथायां वादिनो न निग्रहः सैव लक्षणा निरूढा । अनुकूलत्वस्य धात्वाख्यातार्थव्यापारयोः संसर्गतया स्फोरणायानुकूलत्वेनोपादानं, न तु लक्ष्यतावच्छेदके तदन्तर्भावः । व्यापारत्वञ्च कार्यत्वं तच्च प्रतियोगितासम्बन्धेन ध्वंसवत्त्वं, प्रागभाववत्वं वा व्यापारत्वम् ॥ १ ॥
. रामचन्द्रतर्कवागीशकृतव्याख्या। आख्यातस्यति । आख्यातत्वं शक्ततावच्छेदकं यत्नत्वञ्च शक्यतावच्छेदकमित्यर्थः, तत्राख्यातत्वं लत्वं वर्णत्वव्याप्यजातिविशेषः, त्यादयो लकारादशाः, तथाचाप्राप्तस्य पचतीत्यादावादेगेन त्यादिना आदेशिनो लकारस्य स्मरणादेव यत्नस्वविशिष्टस्योपस्थिति-शाब्दबोधौ विशेषदर्शिनः । भ्रान्तस्य च त्यादावेव यत्नत्वविशिष्टशक्तिभ्रमादन्वयबोधः। न च त्यादेः ककारादेशत्वमादाय विनिगमकाभावः, सर्वज्ञेन पाणिनिमुनिना त्यादीनां लकारादेशत्ववोधनं न तु ककारादीनामित्यस्यैव विनिगमकत्वादिति संप्रदायविदः । आख्यातपदात् त्यादयो बोडव्या इत्याकारकवैयाकरणपरिभाषाविषयत्वसम्बन्धेनाख्यातपदवत्त्वमेवा