________________
१३ ग्रन्थः] व्याख्याषटकयुतः करोतीत्यत्र करोतिना पक्ष्यतीत्यादेरविवरणादसङ्गतत्वापत्तेः । सर्वाख्यातविवरणादित्यस्य सर्वैराख्यातविवरणादित्यर्थः, इति केचित् । अयं भावः, पचति पाकं करोतीत्यादिविवरणेषु पचतिपदं स्वपरतया पचपदपरं तिपदपरञ्च, पा. कपदसमभिव्याहारेण कृधातुः पाकसमानार्थकत्व-कृसमानार्थकत्वपरः, आश्रयत्वमाख्यातार्थः, एवञ्च पचपदं पाकसमानार्थकं, तिपदं कृसमानार्थकमित्यादिबोधः । एवं सर्वत्रैव विवरणे चरमपदे एव तत्पदसमभिव्याहारेण तत्त
समानार्थकत्वे लक्षणा । अतएव येन समानार्थकतया यत् बोध्यते तत् तस्य विवरणमिति प्रामाणिकाः । ननु तथापि शक्यप्रतिपादकताविशेषसम्बन्धेन कृधातुमत्वं लक्षणादिना कृधातुशक्यप्रतिपादके शब्दे अनैकान्तिकमित्यत आह, व्यवहारादिवेति। बाधकं विना स्वसाध्यबाधकं यद्विशेषणं तदभाववत्त्वविशेषणसहकारेण, व्युत्पत्तेः व्युत्पत्तिसंभवात् शक्तिग्रहसंभवादिति यावत् । गवा. दिपदव्यवहारो यथा गवादिपदशक्यत्वस्वरूप-स्वसाध्यस्य बाधकं यद्विशेषणं लक्षणा-शक्तिभ्रमजन्यप्रतिपत्तिविषयतासम्बन्धेन गवादिव्यवहारवच्वं तदभाववखे सतीति विशेषणविशिष्टीभूय प्रतिपाद्यतासम्बन्धेन गवादौ गवादिपदशक्तिसाधकः, तथा कृधातुमत्त्वादिरूपविवरणमपि प्रत्तित्वावच्छिन्नशक्यताकत्वादिरूपस्वसाध्यस्य बाधकं यद्विशेषणं लक्षणा-शक्तिश्रमजन्यस्वशक्यप्रतिपत्तिजनकतासम्बन्धेन कृधातुमत्वं तदभाववत्वे सतीति विशेषणविशिष्टीभूयस्वशक्यप्रतिपादकताविशेषसम्बन्धेन प्रवृत्तावाख्यातादेः शक्तिसाधकमित्यर्थः, तथाच निरुक्तबाघकाभाववत्त्वं हतौ विशेषणं देयमिति भावः । अतएव “ शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याब्यवहारतश्च । वाक्यस्य शेषाद्वितेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः" ॥ इति पठन्ति । तत्रानुमानपदं व्यवहारादीतरानुमानपरं, तेन व्यवहा. रादेर्न पृथगुपादानविरोधः ।। ___ सांप्रदायिकास्तु नन्वाख्यातस्य किं शक्यमित्यत आह, आख्यातस्येति। यत्न आख्यातस्य वाच्य इति यथाश्रुत एवार्थः । ननु तस्याख्यातपदवाच्यत्वे किं मानमित्यत आह, 'पचतीति, अभेदे तृतीया, अन्वयश्चास्य विवरणे, विवरणं स्वसमानार्थकत्वज्ञापन, ज्ञापनं ज्ञानानुकूलः शब्दः, प्रमाप्यत्वं पञ्चम्यर्थः, तथाच विवरणमेव मानमिति भावः । ननु विवरणस्य शक्तिप्रमापकत्वं न शब्दविधया शक्तेः पदार्थत्व-वाक्यार्थत्वयोरभावादत आह-व्यवहारादिवेति। तथाचानुमानविधयैव तस्य शक्तिसाधकत्वमिति भावः । अनुमानञ्चोक्तरूपमिति व्याचक्रः । ___ ननु विवरणेन कृधातुशक्यप्रतिपादकत्वं तिबादेर्न बोधितं, अपि तु कृधातुप्रतिपायप्रतिपादकत्वं तच्च लक्षणया कृधातोः प्रतिपाद्यस्य व्यापारादेः प्रतिपादकत्वेऽपि निर्वहतीत्यरुचेराह-किं करोतीति । किविषयकत्वप्रकारकप्रत्तित्वविशिष्टविशेष्यकप्रभे सतीत्यर्थः । किंविषयकत्वं जिज्ञासितविषयकत्वं, किंशब्दस्य जिज्ञासितवाचकत्वात् । 'यलार्थकत्वं विना' आख्यातस्य प्रवृत्तित्व