________________
वादार्थसंग्रहः
[४ भागः
नुव्यवसायविरहाच्च । चेष्टाजनकतावच्छेदकः स एव निवृत्तेश्चेष्टाजनकत्वविरहात्। सुपुप्तौ शरीरकर्मणः चेष्टात्वे मानाभावात् , तत्रापि चेष्टावस्यानुभवसिद्धत्वे रागजन्यतावच्छेदकप्रटत्तित्वव्यापको निटत्तिव्याटत्तो जीवनयोनियत्नसाधारणो जातिविशेष एव चेष्टाजनकतावच्छेदकः, स च नाख्यातस्य शक्यतावच्छेदक: तथासत्याख्यातस्य कृधातुपर्यायत्वानुपपत्तेः । सुपुप्तौ जीवनयोनियत्नसत्त्वेऽपि स्वारसिककरोतिव्यवहाराभावेन रागजन्यतावच्छेदकप्रत्तित्वस्यैव कृयातुशक्यतावच्छेदकत्वात् । एतेन 'प्रत्ति-निवृत्ति-जीवनयोनिसाधारणं गुणविभाजकं प्रयत्नत्वमेव आख्यातस्य शक्यतावच्छेदकम् । न चैवं पाकगोचरनित्तिदशायामपि पचतीत्यादिः प्रयोगः स्यादिति वाच्यं । निटत्तेः क्रियानुकुलत्वाभावात् क्रियानिष्टसाध्यत्वाख्यविलक्षणविषयत्वानिरूपकत्वाच्च । तथाच व्यवहारासंभवात् आख्यातार्थप्रयत्न-धात्वर्थयोस्तादृशसम्बन्धेनैवान्वयस्य साकासत्वात् योग्यताभ्रमात् तथा प्रयोगस्येष्टत्वात् । प्रत्तित्वस्य शक्यतावच्छेदकत्वेऽपि लक्षणया योग्यताभ्रमात् तदानीं तादृशप्रयोगस्य दुर्वारत्वात् ' इति कस्यचिन् प्रलपितमप्यपास्तम् । तथा सति आख्यातस्य कृधातुपर्यायत्वानुपपत्तेः गुणविभाजकप्रयत्नत्वस्य जातित्वे मानाभावेन प्रतित्वमपेक्ष्य तस्य गुरुत्वाच । न च प्रत्तित्वस्य शक्यतावच्छेदकत्वे चैत्रो निःश्वसितीत्यादौ कथं श्वासानुकूलप्रयत्नानुभव इति वाच्यम् । तत्र श्वासाश्रयत्वमात्रप्रतीतेः शरीरक्रियाविशेषस्य श्वासत्वात् । न च तथापि प्रत्तित्वस्य शक्यतावच्छेदकत्वे परमेश्वरो वेदं वक्ति परमेश्वरो वदमुच्चारयति परमेश्वरो वेदं प्रयुड्रे इत्यादौ कथं वेदाभिन्नशब्दानुकूलयत्नवत्वानुभवः वेदजनककण्ठायभिघातानुकूलयत्नवस्वानुभवो वा इति वाच्यम् । कार्यसामान्य प्रत्यतिलघुतया व्याप्यधर्मतया च प्रवृत्तित्वस्यैव जनकतावच्छेदकत्वेऽपि भागवतप्रयत्नेऽपि प्रत्तित्वस्य धर्मिग्राहकप्रमाणसिद्धत्वात् । यद्वा तत्र वचादिधातोरेव यत्नसामान्यमर्थः, अनुकूलत्वं विषयत्वं वा कर्मविभक्त्यर्थः, आख्यातस्याश्रयत्वमर्थः, आख्यातस्यैव वा यत्नसामान्ये लक्षणा वचादिधातुश्च कण्ठायभिघातपर एव। . __ केचित्तु परमेश्वरपदं तदीयकण्ठपरं, वचादिधातोः कण्ठायभिघात एवार्थः, आख्यातस्य आश्रयत्वमेवार्थः, आख्यातस्यैव वा परम्परासंबन्धविशेपेणाश्रयत्वमर्थः, तथाच परमेश्वरपदं यथाश्रुतमेवेत्याहुः।
तथासति प्रतिपादकताविशेषसम्बन्धेन कृधातुमत्त्वादिति हेतुरूयः । विशेषेत्युपादानात् आत्मादौ न व्यभिचारः । नन्वयं हेतुरसिद्ध इत्यत आह-पचतीति । पचति पाकं करोतीत्यादिवाक्यमध्यवर्तिना यत्नार्थककरोतिना यत्नशक्तकृधातुना सर्वाख्यातानां लट्वादिरूपसकलाख्यातविभाजकतावच्छेदकधर्मावच्छिन्नानां विवरणात् स्वशक्यप्रतिपादकताप्रमाजननात् । आदिपादत् पश्वति पाकं करिष्यति अपचत् पाकमकरोत् इत्यादिपरिग्रहः, आदिपदापूरणे पार्क