________________
वादार्थसग्रहः
(चतुर्थो भागः) शिरोमणिकृताख्यातशक्तिवादः।
व्याख्याषट्युतः १३
मथुरानाथी आख्यातस्य यत्नो वाच्यः पचति पाकं करोतीति यत्नार्थककरोतिना सर्वाख्यातविवरणात् । व्यवहारादिव बाधकं विना विवरणादपि युत्पत्तेः किङ्करोतीत्यादियत्नप्रश्ने पचतीत्यायुत्तरस्य यत्नार्थकत्वं विनानुपपत्तेश्च । अचेतने रथो गच्छतीत्यादौ च अनुकूलव्यापारे लक्षणेति प्राचः ॥ १॥
अथ शिरोमणिकृताख्यातशक्तिवादविवृतिः। कुञ्चिताधरपुटेन वादयन् वंशिकां प्रचलदङ्गुलपतिः । * मोहयनखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥
श्रीमता मधुरानाथ-तर्कवागीशधीमता।
आख्यातशक्तिवादस्य क्रियते विटतिः शुभा ॥ आख्यातस्य शक्ति निरूपयति-आख्यातस्येति।आख्यातं यत्नत्वावच्छिनशक्यताकमित्यर्थः, तेन वक्ष्यमाणहेतोर्न वैयधिकरण्यम् । आख्यातत्वञ्च सङ्केतविशेषसम्बन्धेन आख्यातपदवत्वं, न तु जातिः, तित्वादिना साड्र्यात मानाभावाच । शक्ततावच्छेदकञ्च न तत्, किन्तु प्रत्येकं तित्वादिकमेव, आख्यातत्वप्रकारणाज्ञानदशायां तित्वादिना ज्ञानात् शाब्दबोधमात्रस्य शक्तिभ्रमजन्यत्वप्रसङ्गात् , तित्वादिना प्रकारेणाज्ञानदशायां तत्प्रकारेण ज्ञानात् शाब्दबोधानुदयस्य सर्वसिद्धत्वात् । यत्नत्वञ्च प्रत्तित्वं, प्रत्तित्वं च रागजन्यतावच्छेदकतया सिद्धं, अहं यते अहं प्रटत्तोऽस्मि अहं करोमीत्यनुव्यवसायसाक्षिको नित्ति-जीवनयोनिव्याटत्तो जातिविशेषः, निवृत्तिजीवनयोनियत्नयोः रागाजन्यत्वात् तथा
१ यत्नवाचकत्वम् इ. पा. २ 'शक्तिग्रहात् ' इ. पाठ. ३ तीति प्रश्ने इ. पाठ. ४ त्युत्तर. पाठः।