________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः ।
ख्यातत्वं तेन रूपेण त्यादिषु तथा परिभाषा कृता न तु ककारादीनामित्यस्यैव विनिगमकत्वादिति, तित्वादिना वा यत्लत्वविशिष्टगोचरपदार्थस्मृतिशाब्दबोधावभान्तस्य, भ्रान्तस्य च तित्वादिना शक्तिभ्रमादेव तावित्यन्ये(?)। विनापि लत्वा. ख्यातपदवत्त्वयोर्ज्ञानं पचतीत्यादावभ्रान्तस्य शाब्दबोधदर्शनेन (न) लत्वादिना शक्तिः तथाच तित्वादिकमेवाख्यातत्वम् । न चैवं तिबादिभेदेन शक्तिभेदकल्पने गौरवं, प्रामाणिकतया तस्यादोषत्वात् । न च तिप्तसादीनां विष्णु-नारायणशब्दादीनामिव पर्यायतापत्तिः, इष्टत्वादित्यपरे । वेदत्वादिवदाख्यातत्वमखण्डोपाधिरिति नव्याः। एतेन धातुत्व-विभक्तित्वादयो व्याख्याताः । यत्नत्वञ्च घट करोमि घटाय यतते इत्यादिप्रतीतिसिद्धजातिविशेषः । न च यत्नत्वं प्रवृत्तिजीवनयोनियत्नसाधारणो जातिविशेषः इति सिद्धान्तः तद्व्याप्यापि जीवनयोनियत्लव्यात्तप्रटत्तित्वाख्यजातिरस्ति तथाच तव्याप्यप्रत्तित्वजातेरप्याख्यातशक्यतावच्छेदकत्वसंभवेन तदादाय विनिगमनाविरह इति वाच्यम् । तथा सति मुषमिकाले चैत्रो निश्चसितीति प्रयोगाभावप्रसङ्गात् तदानीं प्राणक्रियारूपनिषासानुकूलप्रवृत्तेरभावात् प्रवृत्तिहेत्विष्टसाधनताज्ञानादेस्तदानीमभावेन प्रत्युत्पादासम्भवात् । नहि यत्नत्वस्य शक्यतावच्छेदकत्वेऽप्ययं दोषः, निश्वासानुकूलजीवनयोनियत्नस्य धर्माधर्मसहितात्ममनोयोगमात्रजन्यस्य सुषुप्तिकालेऽप्युत्पत्तेः। न च नित्याख्ययत्नत्वस्य कुत्राप्याख्यातपदाप्रतिपाद्यतया यत्नत्वस्यातिप्रसक्तत्वेन न शक्यतावच्छेदकत्वमन्यथा सत्त्व-गुणत्वादेरप्याख्यातशक्यतावच्छेदकत्वमनुकूलताविशेषस्य संसर्गत्वाच्च पचतीत्यादौ न ज्ञानादीनां बोधः इत्यस्य सुवचत्वादिति वाच्यम् । पचतीत्यादौ सत्व-गुणत्वादिनैव यत्नस्य शाब्दबोधाभ्युपगमे पचतीत्यादिशाब्दबोधानन्तरं चैत्रः पाकानुकूलयत्नवान्न वेति संशयादिप्रसङ्गात् अप्रसङ्गाश्च चैत्रः पाकानुकूलगुणवान वेत्यादेरिति निवृत्तिसाधारणमपि यत्नत्वमेव शक्यतावच्छेदकं स्वीक्रियते । न च ईश्वरः पचतीति प्रयोगापत्तिः कार्यमानहेतुभूताया ईश्वरकृतेः पाकस्याप्यनुकूलत्वादिति वाच्यम् । ईश्वरकृतिव्यावृत्तस्य पाकानुकूलत्वस्यैव पचतीत्यादौ वाक्यार्थत्वाभ्युपगमात् । अस्तु वा ईश्वरो जगत् सजतीत्यादिवदीश्वरः पचतीत्यादिप्रयोगे इष्टापत्तिरिति ।
'यत्तु रागजन्यतावच्छेदकं प्रवृत्तित्वावान्तरबैजात्यमेवाख्यातशक्यतावच्छेदकमिति पाकानुकूलतादृशविजातीयप्रत्तेरीधरावृत्तित्वादीश्वरः पचतीति नं प्रयोगः इति तदसत्, तथा सतीधरो जगत् सृजतीति प्रयोगाभावप्रसङ्गात् सुषुप्तिदशायां चैत्रो निश्चसितीति प्रयोगाभावप्रसङ्ग इत्यस्याप्युक्तत्वाच्च इति दिक् ।
नन्वाख्यातस्य यत्नत्वविशिष्टे शक्तिग्रहः कुत इत्याकाङ्क्षायामाह-पचतीत्या. दि। यत्नार्थकेति। यत्नार्थको यःकरोतेः कृधातुस्तेन सर्वाख्यातार्थकथनादित्यर्थः। ननु विवरणम्य शक्तिग्राहकत्वे अपसिद्धान्तः शक्तिग्राहकमध्ये विवरणस्यागणनाद त्यत आह, बाधकं विनेति । गौरवान्यलभ्यत्वादिरूपवाधकाभावे सतीत्यर्थः, तेन