________________
वादार्थसंग्रहः
६
[ ४ भाग:
?
स्थाली पचतीत्यादा पाकानुकूलव्यापारस्य विवरणेऽपि न व्यापारत्वविशिष्टे शक्ति: यत्तत्वापेक्षया व्यापारत्वस्य गुरुत्वमेव बाधकमेवं पचति पाकयत्नवान् इत्यादिना धर्मो विवरणेऽपि तत्रान्यलभ्यत्वमेव बाधकमिति भावः । तदाह “शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सानि - भ्यतः सिद्धपदस्य वृद्धाः” ॥ 'विवृतिः' विवरणमित्यर्थ इति, तथाच शक्तिग्राहकाणां मध्ये विवरणस्यापि शक्तिग्राहकत्वमुक्तमिति न सिद्धान्तविरोधः । विवरणस्य शक्तिग्राहकता च व्यवहारस्येव अनुमानोत्थापकतया । तथा हि पचतीत्यादावाख्यातपदं यत्वविशिष्टे शक्तं यत्रत्वविशिष्टार्थककृधातुप्रतिपाद्यार्थक शब्दत्वादित्यायेवानुमानम्, अत्रच कृधातुप्रतिपाद्यार्थकत्वरूपं विवरणं हेतुघटकमिति शक्तिग्राहकाanirgacaत्वमेव विवरणस्य शक्तिग्राहकत्वपदार्थ इति भावः । न च व्यवहा - रस्य शक्तिग्राहकत्वाभावेन व्यवहारादिवेति दृष्टान्तविरोध इति वाच्यम् । घटपदं घटत्वविशिष्टे शक्तं लक्षणायजन्य घटत्वविशिष्टबोधजनकपदत्वादित्यनुमाने घटत्वविशिष्टोवकत्वरूपव्यवहारस्य हेतुघटकतया शक्तिग्राहकानुमानोत्थापकत्वसंभवात् । 'व्युत्पत्तेः' शक्तिग्रहात् व्युत्पत्तिपदस्य शक्तिवाचकत्ववत् शक्तिग्रहवाचकत्वादिति भावः । ननु नैयायिकानां यत्रत्वविशिष्टे आख्यातस्य विवरणवत् मीमांसकानां व्यापारेऽपि विवरणात् व्यापारत्वविशिष्टेऽपि शक्तिः स्यादिति न विवरणस्य शक्तिग्राहकतेत्यत आह-किं करोतीति । कृतित्वविशिष्टधर्मिक-किचिर्मप्रकारकजिज्ञासाविषयः किंशब्दार्थः, 'किमिति क्रियाविशेषणं, तथाच किं करोतीत्यस्य तादृशजिज्ञासाविषयाभिन्नकृतिमानित्यर्थः, क्रियाविशेषणस्याभेदेनान्वयस्य व्युत्पन्नत्वात् । न च किमित्यत्र द्वितीयाया अनुकूलत्वमर्थः, तथा सति विषयेणोत्तरस्यानुपपत्तिप्रसङ्गादिति भावः । अस्तु वा विषयत्वमेव द्वितीयार्थः, तादृशजिज्ञासा च किंशब्दार्थ इति । यत्नार्थकत्वं विनेति । पचतीत्यस्य यनत्वविशिष्टार्थकत्वविरहे पचतीत्यतो यत्तत्वविशिष्टधर्मिक पाकप्रकारकबोधो न स्यात् तथाच प्रश्नप्रतिपादितजिज्ञासानिवर्त्तकज्ञानजनकवाक्यत्वरूपमुत्तरत्वं पचतीति वाक्ये न स्यादित्यर्थः । नन्वाख्यातस्य यत्रत्वविशिष्टार्थकत्वे रथो गच्छतीत्यादिवाक्यस्यायोग्यत्वापत्तिः अचेतने रथादौ गमनानुकूलकृतेर्बाधादित्यत आह-अचेतन इत्यादि । अचेतनविशेष्यकत्रोधजनक इत्यर्थः । अनुकूलेत्यादि । तथाच रथेोगच्छतीत्यादौ गमनानुकूलव्यापारात्मकनोदनाभिघातादिरेव रथादावस्तीति नायोग्यतेति भावः । इदञ्च प्राचीनमतम् ॥ १ ॥
रघुदेवभट्टाचार्यकृता आख्यातवादट्टीका ।
प्रणम्य नीरदश्याममुद्दामगुणमन्दिरम् । आख्यातवादसद्वयाख्या रघुदेवेन तन्यते ॥ १ ॥
नैयायिकः परमतं निराकर्तुं स्वमतं व्यवस्थापयति - आख्यातस्येत्यादिना ।