________________
१३ ग्रन्थः ]
व्याख्यापट्कयुतः ।
यत्नो वाच्यः यत्नत्वविशिष्टो वाच्यः, यत्नत्वं शक्यतावच्छेदकमिति यावत् । यथाश्रुते यत्नस्य व्यापारान्तर्गतत्वेन व्यापारशक्तिवादिमतव्यवच्छेदाप्रतीतेः । शक्ततादछेदकं चाख्यातत्वम् । तच्च रूढिसंबन्धेनाख्यातपदवत्त्वम् । यदि च रूढिसंबन्धेनाख्यातपदवत्त्वं लकारेष्वेव अभियुक्तानां तत्रैवाख्यातपदप्रयोगात्, तथा च पचन्नित्यादावपि कृतिबोधापत्तिः । तत्रापि लकारस्थाने शत्रादेर्दर्शनेन रूढिसंबन्धेनाख्यातपदवतो लकारस्य सत्वादिति विभाव्यते; तदा विशिष्य तिषूत्वादिकमेव शक्ततावच्छेदकं बोध्यम् । एतेन दशलकारसाधारणं लत्वमेव शक्ततावच्छेदकमिति परास्तम् । तस्यैक्याभावात् भावे वा पचन्नित्यादावपि कृतिबोधप्रसङ्गादिति । तथा च यत्नत्वावच्छिन्नविषयकशाब्दत्वावच्छिन्नं प्रति यत्नत्वावछिन्नविशेष्यक रूढिसंबन्धघटिताख्यातपदवत्त्वावच्छिन्ननिरूपितशक्तिविषयकज्ञानजन्ययत्नोपस्थितित्वेन हेतुत्वं कल्पनीयमिति ध्येयम् । ननूपदर्शित कार्यकारणभावकल्पने शुद्धाख्यातपदाद्यत्नविषयकशाब्दबोधापत्तिरिति चेन्न । संभवत्येवं T यदि हि पाकाद्यनुकूलविषयक शाब्दत्वावच्छिन्नं प्रति तिबादिपदनिष्ठपचादिधात्वव्यवहितोत्तरत्वरूपानुपूर्वीज्ञानस्य हेतुत्वं न कल्प्यते । वस्तुतस्तु शुद्धाख्यातपदजन्ययत्नोपस्थितिकाले पाको यत्नश्चेति निराका वाक्यात्पाकानुकूलयत्नविषयकशाब्दबोधवारणाय तादृशकार्यकारणभावकल्पनाया आवश्यकत्वेनोपदर्शिताख्यातपदनिरूपितशक्तिज्ञानजन्योपस्थित्या यत्नशाब्दबोधे जननीये पचतीत्याद्यानुपूर्वीज्ञानस्य सहकारित्वकल्पनेनैव केवलाख्यातपदाद्यत्न विषयकशाब्दबोधवारण संभवात् ।
S
केचित्तु आख्यातस्य यत्नवाचकत्वे पाकगोचरनिवृत्त्याख्ययत्नकाले चैत्रः पचतीत्यादिप्रयोगस्य योग्यत्वापत्तिमुद्भावयन्ति तन्न श्रद्दधीमहि । प्रवृत्त्यभावातिरिक्तनिवृत्त्याख्ययत्ने मानाभावात् । वस्तुतस्तु निवृत्त्याख्ययत्नाङ्गीकारेऽपि न क्षतिः । यतः पचतीत्यादिवाक्यात्पाकानुकूलकृतेरेव शाब्दबोधोत्पत्त्या निवृत्त्याख्ययत्नकाले पाकानुकूलकृतेरभावेन तदानीं तादृशप्रयोगस्य तथाविधप्रमात्मकशाब्दबोधाजनकतयायोग्यत्वं सूपपादमेवेति । ये तूपदर्शितापत्तिभिया प्रवृत्तित्वमेवाख्यातपदशक्यतावच्छेदकमुपवर्णयन्ति । तन्न । तेषां मते इष्टसाधनताज्ञानजन्यतावच्छेदककोटिप्रविष्टत्वेन सिद्धायाः प्रवृत्तित्वाख्यजातेरीश्वरीयकृतिसाधाये मानाभावेनेश्वरो वेदं वक्तीति वाक्याच्छाब्दबोधानिर्वाहः परिचिन्तनीयः । न च तत्राख्यातस्य कृतौ लक्षणया नानुपपत्तिरिति वाच्यम् । उपदर्शितरीत्या तादृशशक्त्यैव वाक्यजन्यशाब्दबोधस्य निर्वाहे लक्षणाकल्पनस्यान्याय्यत्वात् । न चाख्यातस्य यत्नत्वविशिष्टशक्तत्वे चैत्रः पचतीत्यादिवदीश्वरः पचतीत्यादिप्रयो