________________
वादार्थसंग्रहः
[ ४ भाग:
.गापत्तिवारणायावश्यमाख्यातस्य प्रवृत्तित्वविशिष्टे शक्तत्वमुपगन्तव्यमिति वाच्यम् । आत्मा पचतीत्यादिप्रयोगवत्तस्यापि वारणसंभवात् । तथाहि -आख्यातस्य यत्नत्वविशिष्टवाचकत्वे आत्मा पचतीत्यादिप्रयोगापत्तिरित्यत्र तथाविधप्रयोगः शब्दार्थः, तथाविधशब्दजन्यप्रमात्मकशाब्दबोधो वा । नाद्यः । कण्ठताल्वाद्यभिघातरूपशब्दकारणसत्त्वे तथाविधशब्दे इष्टापत्तेः । नान्त्यः । तथाविधशाब्दबोधस्यापादकाभावात् । योग्यताज्ञानमेवापादकमिति तु नाशङ्कनीयम् । यतस्तथाविधशाब्दबोधाप्रसिद्धया तादृशबोधं प्रति तादृशयोग्यताज्ञानत्वेन हेतुत्वक- पनस्य निष्प्रयोजनकत्वात् ।
ननु पाकानुकूलकृतिमांश्चैत्र इत्यादिशाब्दबोधं प्रति तत्समानाकारयोग्यताज्ञानस्य धर्मितावच्छेदकभेदेन हेतुत्वकल्पने गौरवात् समानधर्मितावच्छेदकताप्रत्यासत्त्यैव तथाविधयोग्यताज्ञानशाब्दबोधयोर्हेतुहेतुमद्भावः समुचितः । तथा च 'पाकानुकूलकृतिप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दत्वावच्छिन्नं प्रति पाकानुकूलकृतिप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन ज्ञानत्वेन हेतुत्वमिति योग्यताज्ञानशब्दबोधयोः हेतुहेतुमद्भावे व्यवस्थिते तादृशसंबन्धेन पाकानुकूलकृतिप्रकारकज्ञानस्य आत्मत्वे सत्त्वात्तत्र तादृशबोधापत्तौ स्वीक्रियमाणायां फलतस्तादृशपाकानुकूलकृतिमानात्मेति तादृशबोधापत्तिरिति तु मा शङ्किष्ठाः । अवच्छेदकतासंबन्धावच्छिन्नतादृशकृतिप्रकारताकशाब्दबोधं प्रति तथाविधयोग्यताज्ञानस्य हेतुतायाः कल्पनीयतया आत्मा पचतीत्यादौ विशेषदर्शिनां तादृशयोग्यताज्ञानविरहेण तथाविधप्रमात्मकशाब्दबोधापत्तेरशक्यत्वात् । एवं चेश्वरः पचतीत्यादिवाक्यजन्यतादृशशाब्दबोधापत्तिवारणस्यापि सुलभत्वात् । नचैवं सति ईश्वरो वेदं वक्तीति प्रयोगाद्बोधानुपपत्तिः, ईश्वरेऽवच्छेदकता संबधेन कृतेरभावादिति वाच्यम् । तत्र समवायसंबन्धेन कृतिप्रकारकशाब्दबोधं प्रति तथाविधानुपूर्वीज्ञानस्य हेतुत्वकल्पनादीश्वरः पचतीत्यादितस्तथाविधशाब्दबोधस्यानुत्पादेन तथाविधकल्पनाया असंभवात् । ऋजवस्तु आत्मा पचतीश्वरः पचतीत्यादिवाक्यजन्यशाब्दबोधेऽपि ष्टापत्तिमङ्गीकुर्वन्तीत्यलमधिकेन ।
ननु यत्त्वविशिष्टे आख्यातपदस्य शक्तौ किं प्रमाणमत आह-पचतीत्यादि । किं करोतीत्यनन्तरं क्रमेणेति शेषः । सर्वाख्यातविवरणादिति । दशलकाराणामर्थकथनादित्यर्थः । पूर्वोच्चरितवाक्यस्योत्तरवाक्येनार्थकथनं विवरणमि-यस्य तलक्षणत्वादिति भावः ।
ननु कथं विवरणस्य शक्तिग्राहकत्वं शब्दविधयानुमानविधया वा । नाद्यः