________________
१३ ग्रन्थः] व्याख्याषट्कयुतः । पाकं करोतीत्यादिवाक्यस्य पाकविषयकयत्नमात्रबोधकत्वेन यत्ने आख्यातस्य शक्त्यबोधात्मकतया तस्य शक्तिग्रहे शब्दविधया प्रमाणत्वासंभवात् । नान्त्यः । साध्यहेतुप्रयोगासंभवादिति चेन्न । आख्यातपदं यत्नत्वविशिष्टे शक्तम् , बाधकं विना यत्नत्वविशिष्टार्थककरोतिप्रतिपादितार्थकत्वात् , पाकत्वविशिष्टशक्तपाकपदप्रतिपादितार्थकपचधातुवत् । यद्यद्यद्विशिष्टार्थबोधकपदप्रतिपादितार्थकं तत्तद्विशिष्टे शक्तमिति सामान्यव्याप्त्या विवरणस्यापि शक्तिग्राहकत्वसंभवात् । ननूपदर्शितानुमानमप्रयोजकमत आह-व्यवहारादिवेति । बाधकं विना अन्यलभ्यत्वप्रतिसंधानं विना । इदं तु धर्मिण्याख्यातस्य शक्तिव्यवच्छेदार्थमुक्तम् । व्युत्पत्तेरिति । शक्तिग्रहसंभवादित्यर्थः । तथा च विवरणहेतुकानुमानस्य शक्त्यग्राहकत्वे तुल्ययुक्त्या व्यवहारहेतुकानुमानस्यापि शक्त्यग्राहकतया घटत्वादिविशिष्टे घटपदादेरपि शक्तिविलोपप्रसङ्गादिति भावः। . - ननु विवरणं तत्रैव शक्तिग्राहकं यत्र नान्यलम्यत्वप्रतिसंधानवार्ता प्रकृते तुपाको यत्नजन्यः पाकत्वादित्यनुमानादपि यत्नस्य लाभसंभवेनान्यलभ्यत्वात् अन्यलभ्यस्यापि आख्यातपदशक्यत्वे किमपराद्धं धर्मिणेत्यत आह-किं करोति इत्यादि । यत्नप्रश्ने यत्नत्वविशिष्टेजिज्ञासितसंबन्धबोधकशब्दप्रयोगे, पचतीत्युत्तरस्योत्तरकालभाविपचतीत्यादिवाक्ये उपदर्शितप्रश्ननिवर्तकत्वस्य, यत्नार्थकत्वं विना यत्नत्वधिशिष्टे पाकसंबन्धबोधं विना । अयं भावः-यद्धर्मविशिष्टे यद्धर्मव्याप्यधर्मावच्छिन्नस्य संबन्धो यत्प्रश्नवाक्यात्प्रतीयते तद्धर्मविशिष्टे तद्धर्मव्याप्यधर्मावछिन्नसंबन्धश्चेत्तदुत्तरवाक्यात्प्रतीयते, तदा तदुत्तरवाक्यस्य तत्प्रश्ननिवर्तकत्वं संभवति । यथा घटत्वविशिष्टे जिज्ञासितसंबन्धबोधके कस्माद्बट इति प्रश्ने घटत्वविशिष्टे दण्डजन्यत्वबोधक 'दण्डात् घटः' इत्युत्तरवाक्ये तन्निवर्तकत्वम् । प्रकृते च आख्यातस्य यत्नत्वविशिष्टावाचकत्वे व्यापारशक्त्या पचतीतिवाक्यात्पाकानुकूलव्यापारबोधाभ्युपगमे यत्नत्वविशिष्टे पाकसंबन्धबोधाभावात्तद्वाक्यस्य यत्नत्वविशिष्टे जिशासितसंबन्धबोधक किं करोति' इति प्रभवाक्यनिवर्तकत्वानुपपत्त्या अन्यलभ्यत्वेप्याख्यातस्य यत्नत्वविशिष्टे शक्तिरावश्यकीति । - ननु रथो गच्छतीत्यादावाख्यातस्य यत्नबोधकत्वासंभवेन व्यापारे शक्तिरावश्यकीत्यत आह-अचेतन इति । अचेतनार्थमुख्यविशेष्यकबोधजनक इत्यर्थः । अनुकूलव्यापार इति । अत्रानुकूलत्वोत्कीर्तनं तु गमनस्य तेन संबन्धेन व्यापारेऽन्वयस्फोरणाय नतु तदन्तर्भावेनापि लक्षणीयता व्यर्थत्वात् । तत्र गमनस्यान्वये पदार्थ: पदार्थेनान्वेति नतु पदार्थैकदेशेनेति व्युत्पत्तिविरोधाच्च ॥ १ ॥