________________
वादार्थसंग्रहः
[४ भागः
जयरामभट्टाचार्यकृताव्याख्या। न्यायपञ्चाननः श्रीमाञ्जयरामः समासतः ।
आख्यातवादव्याख्यानमातनोति मनोरमम् ॥ अनुकूलव्यापारत्वमाख्यातशक्यतावच्छेदकमिति केचित् । अनुकूलत्वस्य संसर्गत्वाद्वयापारत्वमात्रं तथेत्येके । अनुकूलत्वमात्रं तथेत्यन्ये । धातोरर्थः फलमनुकूलव्यापारादिकमाख्यातस्येति मण्डनः । तत्तत्फलावच्छिन्नव्यापारविशेषस्तत्तद्धात्वर्थः । संख्यावर्तमानत्वादिकं क्वचिदाश्रयत्वं चाख्यातार्थ इति गुरवस्तत्सर्व निराचिकीर्षुः प्रतिजानीते-आख्यातस्येति । आख्यातत्वं संकेतविशेषसंबन्धेन आख्यातपदवत्त्वम् । एतेन विभक्तित्वादयो व्याख्याताः । तिबाद्यन्यतमत्वं वा तत् । इदं च साध्यकोटिनिविष्टं न तु शक्ततावच्छेदकं विनाऽपि तेन रूपेण ज्ञानं, तिप्त्वादिना ज्ञानादेव तिबादितोऽर्थप्रत्ययेन तिप्त्वादेरेव तत्त्वात् । ... परे तु तिप्त्वाद्यवच्छिनस्य संकेतभ्रमादेव बोधः । शक्ततावच्छेदकानन्त्ये शक्त्यानन्त्यापत्त्या सर्वत्र तत्तत्पदान्यतमत्वस्यैव शक्ततावच्छेदकत्वादित्याहुः ।
यत्तु लट् , लिट् , लुट् , लट् , लेट् , लोट् , लङ्, लिङ्, लुङ्, लङ्, । इतिदशलकारसाधारणलत्वावविच्छन्नस्य यत्ने, आदेशभूततिबादिवृत्तिना तिप्त्वादिना एकवचनत्वादिना वाऽवच्छिन्नस्यैकत्वादौ लट्त्वाद्यवच्छिन्नस्य वर्तमानत्वादौ शक्तिः । इत्थं च पचतीत्यादौ तिबाद्यादेशस्मारितलडादेव यत्नादिप्रत्ययः । लडादेशयोरपि शतृशानचोः कर्तरि शक्तिरादेश्यर्थकृतस्तत्राभेदान्वयाऽसंभवादिति तन्न । ईदृशादेशादेशिभावसंबन्धाधीनादेशिस्मृते<घाद्युत्तरलत्वादिना यत्नानुभावकत्वस्य च कल्पने गौरवात् । वेदादिप्रयुक्ततिबाद्यन्यतमत्वेन शक्तत्वौचित्याच्च । किं च तिवादीनामेकैकत्र शक्तिरन्यत्र लक्षणया शक्तिभ्रमादा बोध इत्यस्तु, त्वयापि तिबादी शक्तिभ्रमस्वीकारात् । तिबादयो लस्यादेशा वस्य वेत्यत्र मुनिवचनातिरिक्तं प्रमाणमादर्शनीयम् । वचसा वचस इत्यादावनुभावकत्वेन तृप्तस्यादेशिनो देवेन देवत्येत्यादावादेशेन स्मरणं युक्तं तस्मात्प्रकृते संख्यावर्तमानत्वाद्यनुभावकतावच्छेदकतिप्ल्यादिनैव यत्नानुभावकत्वम् । अनुभावकतायाः शक्ततायाश्चैकमवच्छेदकम् । एतेन लादय आदेशिनो निरर्थका एवेति वैयाकरणमतमप्यपास्तम् । आदेशित्वे मानाभावात् । लस्य वादेर्वा तत्वमित्यत्र विनिगमकाभावाच ।
यत्तु एकवर्णपदत्वमेव शक्ततावच्छेदकम् । अस्तु वा पदमात्रस्य चरमवर्णत्वमेव तथा, अन्यत्तु तात्पर्यग्राहकं, समुदाये शक्तत्वव्यवहारस्तु समासादाविव