________________
११
१३ ग्रन्थः] व्याख्याषट्कयुतः। गौण इति तन्न । तथा सति कलशादिपदस्यासाधुत्वापत्तेः । न च व्याकरणव्युत्पाद्यत्वात्तथा, शक्त्यभावे लक्षणाया अप्ययोगादर्थवत्त्वाभावे प्रातिपदिकसंज्ञाभावेन तद्वयुत्पाद्यत्वस्याप्ययोगात् । न च विजयः पराजयः इत्यादिद्योतकघटितसमुदाय इव चरमवर्णशक्तावपि कलशादिसमुदाये प्रातिपदिकसंज्ञासंभवः । तत्र कृत्तद्धितसमासाश्चेति प्रातिपदिकसंज्ञाविधानात् । न चैतत्सूत्रमर्थवदितिसूत्रस्य प्रपञ्च एव न तु विधायकम् । देवानित्यादेः प्रातिपदिकसंज्ञावारणाय अप्रत्यय इत्यस्य प्रत्ययतदन्तभिन्नार्थकतया समासादौ प्रत्ययान्ते तत: प्रातिपदिकसंज्ञाया असंभवादित्यधिकं शब्दपक्षधरीयप्रकाशे ।
यत्तु अतीतेऽपि यत्ने वर्तमानत्वादिबोधपरत्वेन पचतीत्यादिप्रयोगापत्तेर्वतमानत्वादियत्नयोरेवोचारणान्तर्भावेन शक्तिः पुष्पवन्तादिवत् । इत्थं च तिप्त्वादिकमेव शक्ततावच्छेदकमिति । तन्न । रथो गच्छति गगनेन स्थीयते इत्यादौ वर्तमानत्वबोधानापत्तेः । अतीते यत्ने पचतीति प्रयोगापादनं चातीते व्यापारादौ रथो गच्छतीत्यादिप्रयोगापादनेन तुल्यम् । मिलितानुभावकताशक्त्या तुल्यसमाधानं च । नहि शक्तिवल्लक्षणाऽप्येकोचारणान्तर्भावेन संभवति तिप्त्वतस्त्वाद्यनेकावच्छिन्नानन्तविधवर्तमानत्वादौ यत्नमन्तर्भाव्यानन्तशक्ते: कल्पनामपेक्ष्य आख्यातत्वावच्छिन्नस्य यत्ने लट्त्वाद्यवच्छिन्नस्य वर्तमानत्वादौ शक्तिकल्पनेव लघीयसी । वस्तुतो यत्ने शक्तौ वर्तमानत्वादौ निरूढलक्षणैवेति दिक। ___ यत्नो वाच्य इति । अत्र यत्नत्वावच्छेदन वाच्यत्वान्वयादन्वयितावच्छेदकस्य यत्नत्वस्य प्रकृते स्वरूपसंबन्धरूपवाच्यतावच्छेदकत्वलाभस्तेन व्यापारशक्तिवादिनाऽपि यत्ने वाच्यतोपगमान्न सिद्धसाधनाद्यवकाशः । आख्यातस्येत्यनन्तरं यत्नत्वेनेति वा पूरणीयम् । पचतीत्यादि । पाकं करोतीत्यादौ निविष्टेन करोतिना कृञ्धातुना शक्त्योभयबोधकताकस्य जानातीत्यादिघटकाख्यातमिनस्य सर्वाख्यातस्य विवरणात् । भावव्युत्पत्त्यार्थबोधादित्यर्थः । वस्तुतः करोतिनेति तृतीयाभेदेन तथा च यत्नार्थककृञ्धातुकविवरणवत्त्वादित्यर्थः । यच्च समानार्थकतया यस्य बोधकं तत्तस्य विवरणं, भवति हि पचतीत्यस्य चरमपदलक्षणया स्वपरत्वात्पाकं करोतीत्यस्य च चरमपदलक्षणया स्वसमानार्थकपरत्वात्तयोरभेदेनान्वयबोधः । प्रायशो विवरणस्थले बहुव्रीहिसमासोत्तरं प्रथमान्ततास्वीकारात् । वृक्षो महीरुह इत्यादौ प्रसिद्धवृक्षादिपदार्थे महीरुहपदवाच्यत्वादिबोधान्न विवरणत्वम् । तदयं प्रयोगः । यत्नः यत्नत्वं च आख्यातस्य शक्यः शक्यतावच्छेदकं वा आख्यातविवरणवत्वात् । शक्तत्वं तदवच्छेदकत्वं वा