________________
१२
वादार्थसंग्रहः
[४ भागः
हेतोः संबन्ध: । विवरणे यत्नार्थककृञ्धात्वभेदकथनं चासिद्धिशङ्काव्युदासाय । अत्राप्रयोजकत्वशङ्कामपाकरोति-व्यवहारादिवेति । आवापोद्वापाभ्यामनुमानेन शक्तिग्राहकत्वसाम्यम् । व्युत्पत्ते: शक्तिप्रमातः । गङ्गायां तीरे इत्यादिविवरणात् शक्तिप्रमानुदयादाह-बाधकं विनेति । इत्थं यद्यत्पदविवरणवत्तत्तत्पदशक्यमिति सामान्यमुखव्याप्तौ तत्र व्यभिचारवारणाय हेतावपि बाधकामावो निवेश्यत इति भावः । ननु यत्नाश्रयेऽपि पचति पाकयत्नवानिति विवरणसत्वाद्वयभिचारः । कर्तुः प्रथमान्तपदलभ्यत्वं बाधकमिति चेत् यत्नस्याक्षेपलभ्यत्वं, तथा । किंच करोतिविवरणं सन्दिग्धं, मीमांसकैर्व्यापारवानित्येव विवरणादत आह-किं करोतीति । किमित्यस्य क्रियाविशेषणत्वात् कीदृग्यत्न इत्यर्थः । यथाश्रुते कर्मप्रश्ने पाकमित्येवोत्तरं स्यात् अत एवोक्तं यत्नप्रश्ने इति । तेनाश्रयत्वांशेऽपि प्रश्नविषयताभावलाभान्न पचतीत्युतरे न्यूनत्वम् । वस्तुतः का कृतिरियादिकृतिस्वरूपप्रभवारणाय किं करोतीति कर्मविशिष्टव्यापारप्रश्नवारणाय च यत्नप्रश्न इति । अत्र जिज्ञासाविषयविषयिणी कृतिरिति प्रश्नवाक्यार्थः । किंपदस्य जिज्ञासाविषयत्वविशिष्टे शक्तेः । जिज्ञासा च प्रकृते सविषयकत्वव्याप्यधर्मप्रकारकशानेच्छा । कृतिः सविषयिणीति व्याप्त्या कृतेः सविषयकत्वेनोपस्थितौ तद्विशेषधर्मप्रकारकजिज्ञासाया औत्सर्गिकत्वात् । यद्यपि कृतेश्च सविपयकत्वेन सामान्यतस्तद्वयाप्यधर्मवत्त्वेन च ज्ञातत्वात् , पाकविषयककृतिज्ञानत्वादिना चानुपस्थितेस्तादृशजिज्ञासा दुर्घटा । तथाऽपि सविषयकत्वव्याप्यधर्माशे निरवच्छिन्नप्रकारताकज्ञानत्वेनेच्छा बोध्या। अत एव पचतीत्युत्तरवाक्यात्तादृशयत्किचिज्ज्ञान एव तस्या निवृत्तिः । न च प्रश्नवाक्यात् द्वितीयार्थो विषयित्वं प्रकारतयोत्तरवाक्यात्तु संसर्गतया भासते इति वैषम्यम् । स्वरूपतो विषयित्वांशे ज्ञानमात्रस्यैवेष्टत्वेन तद्वैषम्यस्याकिंचित्करत्वात् । यत्तु तादृशज्ञानान्तरस्याप्यसिद्धत्वेनैवेच्छेति । तन्न । तद्युत्तरवाक्यात्तादृशज्ञानेऽपि ज्ञानान्तरस्यासिद्धत्वात् इच्छाया अनिवृत्त्यापत्तेरिति दिक् । प्रश्नोपक्रमबुद्धिविषयधर्मवति किमः शक्तिः । प्रश्नोपक्रमबुद्धिः प्रश्नजनकजिज्ञासाजनकबुद्धिः, सा च सामान्यधर्मेण ज्ञातस्यानिर्धारितविशेषरूपेणोपस्थितिस्तथा च को घट इत्यादरनिर्धारितविशेषधर्मवान् घट इत्यर्थः । जिज्ञासालाभस्तु किंपदेन शक्यतावच्छेदकानुगमकप्रविष्टत्वेनाक्षेपादिति प्राञ्चः । पचतीत्युत्तरस्येति । पचतीत्यस्य यत्नप्रश्नोत्तरत्वं यत्नार्थकत्वं विनाऽनुपपन्नम् । तत्वस्य तत्वनियतत्वात् । तस्य तदर्थकत्वं च तद्घटकाख्यातशक्त्यैवेत्याशयः । अचेतनेति अचेतनविशेष्यकबोधजनके