________________
१३ ग्रन्थः] व्याख्याषट्कयुतः ।
अन्यदीयगमनानुकूलनोदनादिमति गच्छतीत्यप्रयोगात् जानातीच्छति-यतते-द्वेष्टि-विद्यते-निद्रातीत्यादौ च क्रियानुकूलकृति-व्यापारयोरप्रतीतेः गत्यादिमत्त्वमात्रप्रतीतेश्चाश्रयत्वे नश्यतीत्यादौ च प्रतियोगित्वे निरूढलक्षणा। चैत्रः पचति तण्डुलः मैत्रः पच्यते तण्डुल इत्यादावन्वयाबोधात् धात्वर्थप्रातिपदिकार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नतया संबन्धमर्यादया तद्भानस्यासंभवादिति तु नव्याः॥२॥ तादृशि तण्डुल: पच्यते इत्यादौ न लक्षणेत्यत आह-रथ इति । तेन कर्तृविहिताख्यात इति लभ्यते । चस्त्वर्थः ॥ १ ॥
(मथु०) व्यापारे निरूदिलक्षणामतं दृषयन् मतान्तरमाह-अन्यदीयेत्यादिना नव्या इत्यन्तेन । अन्यदीयत्वं रथादिनिष्ठत्त्वं, नोदनादिमतीति, निश्चल इति शेषः । आदिपदादभिघातादृष्टवदात्मसंयोगादिपरिग्रहः । अप्रयोगादित्यादेः पञ्चम्यन्तत्रयस्य 'भाश्रयत्वे निक्रादिलक्षणा' इत्यग्रेतनेनान्वयः । ननु वि. शिष्टाधारत्वसंबन्धेनैव कर्तृपदार्थे गमनवद्यापारान्वयस्य साकासात्वात् गमनविशिष्टव्यापारस्य च निश्चले विरहानायमतिप्रसङ्ग इत्यत आह-जानातीत्यादि। तथाचावंश्यकल्पनीयाश्रयत्वे निरूदिलक्षणयैवोपपत्तौ नानुकूलव्यापारे निरूदिलक्षणा कल्प्यत इति भावः । अत्र चक्षुर्जानातीत्यादौ व्यापारस्यापि प्रत्ययादुक्तमिच्छतीति। अत्र याग-श्राद्धलक्षणेच्छायां तदनुकूलप्रवृत्तेरपि प्रत्ययादुक्तं यतते द्वेष्टीति । यत्न द्वेषयोस्तु प्रत्तिजन्यत्वमसंभाव्येवेति भावः । उक्तेषु प्रवृत्तिव्यापारयोरप्रतीतावपि आत्म-मनोयोगादिरूपो व्यापार आत्मनि संभवत्येव, अतिप्रसङ्गनिरासोऽपि धात्वर्थविशिष्टनिरूपिताधारत्वस्य संबन्धत्वनियमाभ्युपगमादेव संभवतीत्यनुशयेनोक्तं विद्यते निद्रातीति। विदेः कालसंबन्धित्वमर्थः, तदनुकूलकतिव्यापारयोश्च न घटत्वादी संभवः, एवं मेध्याख्यनाडीविशेषावच्छेदेनात्ममनःसंयोगो निद्रा, मेध्यात्वञ्च पुरीततिसाधारणो नाडीविशेषत्तिजातिविशेषः, तेन सुषुप्तौ निद्रातीति प्रयोगो नानुपपन्नः। तादृशनिद्राश्रयत्वव्यवहारश्चात्मनि मनोव्यावृत्तेनात्मत्वविशिष्टसमवायसंबन्धेन, शरीरे च स्वसमवायिसमवेतादृष्टारभ्यत्वलक्षणपरंपरोसंबन्धेन, असाधारणतदनुकूलताश्रयो व्यापारश्च न क्वचिदात्मनि संभवतीति भावः । वस्तुतस्तु, विद्यते इत्यस्य पूर्व निद्रातीति पाठः निद्रा च मेध्याख्यनाडीविशेषमनःसंयोगः, तदाश्रयत्वव्यवहारश्च आत्मनि स्वसमवायिसमवेतशरीरारम्भकादृष्टवत्वरूपेण, स्वसमवाय्यारम्भकादृष्टवत्वरूपेण