Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 16
________________ वादार्थसंग्रहः [४ भागः नुव्यवसायविरहाच्च । चेष्टाजनकतावच्छेदकः स एव निवृत्तेश्चेष्टाजनकत्वविरहात्। सुपुप्तौ शरीरकर्मणः चेष्टात्वे मानाभावात् , तत्रापि चेष्टावस्यानुभवसिद्धत्वे रागजन्यतावच्छेदकप्रटत्तित्वव्यापको निटत्तिव्याटत्तो जीवनयोनियत्नसाधारणो जातिविशेष एव चेष्टाजनकतावच्छेदकः, स च नाख्यातस्य शक्यतावच्छेदक: तथासत्याख्यातस्य कृधातुपर्यायत्वानुपपत्तेः । सुपुप्तौ जीवनयोनियत्नसत्त्वेऽपि स्वारसिककरोतिव्यवहाराभावेन रागजन्यतावच्छेदकप्रत्तित्वस्यैव कृयातुशक्यतावच्छेदकत्वात् । एतेन 'प्रत्ति-निवृत्ति-जीवनयोनिसाधारणं गुणविभाजकं प्रयत्नत्वमेव आख्यातस्य शक्यतावच्छेदकम् । न चैवं पाकगोचरनित्तिदशायामपि पचतीत्यादिः प्रयोगः स्यादिति वाच्यं । निटत्तेः क्रियानुकुलत्वाभावात् क्रियानिष्टसाध्यत्वाख्यविलक्षणविषयत्वानिरूपकत्वाच्च । तथाच व्यवहारासंभवात् आख्यातार्थप्रयत्न-धात्वर्थयोस्तादृशसम्बन्धेनैवान्वयस्य साकासत्वात् योग्यताभ्रमात् तथा प्रयोगस्येष्टत्वात् । प्रत्तित्वस्य शक्यतावच्छेदकत्वेऽपि लक्षणया योग्यताभ्रमात् तदानीं तादृशप्रयोगस्य दुर्वारत्वात् ' इति कस्यचिन् प्रलपितमप्यपास्तम् । तथा सति आख्यातस्य कृधातुपर्यायत्वानुपपत्तेः गुणविभाजकप्रयत्नत्वस्य जातित्वे मानाभावेन प्रतित्वमपेक्ष्य तस्य गुरुत्वाच । न च प्रत्तित्वस्य शक्यतावच्छेदकत्वे चैत्रो निःश्वसितीत्यादौ कथं श्वासानुकूलप्रयत्नानुभव इति वाच्यम् । तत्र श्वासाश्रयत्वमात्रप्रतीतेः शरीरक्रियाविशेषस्य श्वासत्वात् । न च तथापि प्रत्तित्वस्य शक्यतावच्छेदकत्वे परमेश्वरो वेदं वक्ति परमेश्वरो वदमुच्चारयति परमेश्वरो वेदं प्रयुड्रे इत्यादौ कथं वेदाभिन्नशब्दानुकूलयत्नवत्वानुभवः वेदजनककण्ठायभिघातानुकूलयत्नवस्वानुभवो वा इति वाच्यम् । कार्यसामान्य प्रत्यतिलघुतया व्याप्यधर्मतया च प्रवृत्तित्वस्यैव जनकतावच्छेदकत्वेऽपि भागवतप्रयत्नेऽपि प्रत्तित्वस्य धर्मिग्राहकप्रमाणसिद्धत्वात् । यद्वा तत्र वचादिधातोरेव यत्नसामान्यमर्थः, अनुकूलत्वं विषयत्वं वा कर्मविभक्त्यर्थः, आख्यातस्याश्रयत्वमर्थः, आख्यातस्यैव वा यत्नसामान्ये लक्षणा वचादिधातुश्च कण्ठायभिघातपर एव। . __ केचित्तु परमेश्वरपदं तदीयकण्ठपरं, वचादिधातोः कण्ठायभिघात एवार्थः, आख्यातस्य आश्रयत्वमेवार्थः, आख्यातस्यैव वा परम्परासंबन्धविशेपेणाश्रयत्वमर्थः, तथाच परमेश्वरपदं यथाश्रुतमेवेत्याहुः। तथासति प्रतिपादकताविशेषसम्बन्धेन कृधातुमत्त्वादिति हेतुरूयः । विशेषेत्युपादानात् आत्मादौ न व्यभिचारः । नन्वयं हेतुरसिद्ध इत्यत आह-पचतीति । पचति पाकं करोतीत्यादिवाक्यमध्यवर्तिना यत्नार्थककरोतिना यत्नशक्तकृधातुना सर्वाख्यातानां लट्वादिरूपसकलाख्यातविभाजकतावच्छेदकधर्मावच्छिन्नानां विवरणात् स्वशक्यप्रतिपादकताप्रमाजननात् । आदिपादत् पश्वति पाकं करिष्यति अपचत् पाकमकरोत् इत्यादिपरिग्रहः, आदिपदापूरणे पार्क

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 238