Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 17
________________ १३ ग्रन्थः] व्याख्याषटकयुतः करोतीत्यत्र करोतिना पक्ष्यतीत्यादेरविवरणादसङ्गतत्वापत्तेः । सर्वाख्यातविवरणादित्यस्य सर्वैराख्यातविवरणादित्यर्थः, इति केचित् । अयं भावः, पचति पाकं करोतीत्यादिविवरणेषु पचतिपदं स्वपरतया पचपदपरं तिपदपरञ्च, पा. कपदसमभिव्याहारेण कृधातुः पाकसमानार्थकत्व-कृसमानार्थकत्वपरः, आश्रयत्वमाख्यातार्थः, एवञ्च पचपदं पाकसमानार्थकं, तिपदं कृसमानार्थकमित्यादिबोधः । एवं सर्वत्रैव विवरणे चरमपदे एव तत्पदसमभिव्याहारेण तत्त समानार्थकत्वे लक्षणा । अतएव येन समानार्थकतया यत् बोध्यते तत् तस्य विवरणमिति प्रामाणिकाः । ननु तथापि शक्यप्रतिपादकताविशेषसम्बन्धेन कृधातुमत्वं लक्षणादिना कृधातुशक्यप्रतिपादके शब्दे अनैकान्तिकमित्यत आह, व्यवहारादिवेति। बाधकं विना स्वसाध्यबाधकं यद्विशेषणं तदभाववत्त्वविशेषणसहकारेण, व्युत्पत्तेः व्युत्पत्तिसंभवात् शक्तिग्रहसंभवादिति यावत् । गवा. दिपदव्यवहारो यथा गवादिपदशक्यत्वस्वरूप-स्वसाध्यस्य बाधकं यद्विशेषणं लक्षणा-शक्तिभ्रमजन्यप्रतिपत्तिविषयतासम्बन्धेन गवादिव्यवहारवच्वं तदभाववखे सतीति विशेषणविशिष्टीभूय प्रतिपाद्यतासम्बन्धेन गवादौ गवादिपदशक्तिसाधकः, तथा कृधातुमत्त्वादिरूपविवरणमपि प्रत्तित्वावच्छिन्नशक्यताकत्वादिरूपस्वसाध्यस्य बाधकं यद्विशेषणं लक्षणा-शक्तिश्रमजन्यस्वशक्यप्रतिपत्तिजनकतासम्बन्धेन कृधातुमत्वं तदभाववत्वे सतीति विशेषणविशिष्टीभूयस्वशक्यप्रतिपादकताविशेषसम्बन्धेन प्रवृत्तावाख्यातादेः शक्तिसाधकमित्यर्थः, तथाच निरुक्तबाघकाभाववत्त्वं हतौ विशेषणं देयमिति भावः । अतएव “ शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याब्यवहारतश्च । वाक्यस्य शेषाद्वितेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः" ॥ इति पठन्ति । तत्रानुमानपदं व्यवहारादीतरानुमानपरं, तेन व्यवहा. रादेर्न पृथगुपादानविरोधः ।। ___ सांप्रदायिकास्तु नन्वाख्यातस्य किं शक्यमित्यत आह, आख्यातस्येति। यत्न आख्यातस्य वाच्य इति यथाश्रुत एवार्थः । ननु तस्याख्यातपदवाच्यत्वे किं मानमित्यत आह, 'पचतीति, अभेदे तृतीया, अन्वयश्चास्य विवरणे, विवरणं स्वसमानार्थकत्वज्ञापन, ज्ञापनं ज्ञानानुकूलः शब्दः, प्रमाप्यत्वं पञ्चम्यर्थः, तथाच विवरणमेव मानमिति भावः । ननु विवरणस्य शक्तिप्रमापकत्वं न शब्दविधया शक्तेः पदार्थत्व-वाक्यार्थत्वयोरभावादत आह-व्यवहारादिवेति। तथाचानुमानविधयैव तस्य शक्तिसाधकत्वमिति भावः । अनुमानञ्चोक्तरूपमिति व्याचक्रः । ___ ननु विवरणेन कृधातुशक्यप्रतिपादकत्वं तिबादेर्न बोधितं, अपि तु कृधातुप्रतिपायप्रतिपादकत्वं तच्च लक्षणया कृधातोः प्रतिपाद्यस्य व्यापारादेः प्रतिपादकत्वेऽपि निर्वहतीत्यरुचेराह-किं करोतीति । किविषयकत्वप्रकारकप्रत्तित्वविशिष्टविशेष्यकप्रभे सतीत्यर्थः । किंविषयकत्वं जिज्ञासितविषयकत्वं, किंशब्दस्य जिज्ञासितवाचकत्वात् । 'यलार्थकत्वं विना' आख्यातस्य प्रवृत्तित्व

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 238